SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ततः समग्रेऽपि लोकाकाशे चतर्दशरज्ज्वात्मके वालाग्रमपि वालाग्रप्रमाणमपि तत् क्षेत्रं नास्ति यत शरीरिभिरुत्पद्यमानैर्विपद्यमानैश्च न स्पृष्टम् । अत्र हेतुमाह-किविशिष्टैः शरीरिभिः ? सूक्ष्मबादरप्रत्येकसाधारणैकेन्द्रियभेदतो द्वित्रिचतुष्पश्चैन्द्रियभेदतश्च यथायोग्यं नानारूपैः । नानारूपत्वमपि कुतः स्वकर्मतः, न त्वीश्वरादिप्रेरणया, यदाहुः परे अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥१॥ ___तत्रेश्वरप्रेरणा यदि कर्मनिरपेक्षा तदा विश्वस्य वैश्वरूप्यं विलीयेत । कर्मसापेक्षतायां त्वीश्वरस्यास्वातन्त्र्यं वैफल्यं वा स्यादिति कर्कवास्तु प्रेरकम , किमीश्वरेण ? यदवोचाम वीतरागस्तोत्रे कर्मापेक्षः स चेत् तहि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना? ॥१॥ अत्रान्तरश्लोकाः संसारिणश्चतुर्भेदाः श्वभ्रतिर्यग्नरामराः। प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥१॥ आयेषु त्रिषु नरकेषणं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ॥ २॥ नरकेषुष्णशीतेषु चेत् पतेनोह| पर्वतः। विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ॥३॥ उदीरितमहादुःखा अन्योन्येनासुरैश्च ते । इति त्रिविध| दुःखार्ता वसन्ति नरकावनौ ॥ ४॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वाराद् यथा सीसशलाकिकाः॥५॥ गृहीत्वा पाणिपादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥६॥ दारुदारं विदार्यन्ते दारुणैः कुकचैः कचित् । तिलपेषं च पिष्यन्ते चित्रयन्वैः क्वचित पुनः॥७॥ पिपासार्ताः ॥ गृहीत्वा पाणिण समुत्पन्ना घटीयन् पारितमहादुःखा अन्य in Education Interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy