SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ स्तस्यां पुलस्त्यकुलकौस्तुभः । अजायत महावीर्यो रावणो विश्वरावणः ॥२॥ प्रभूतां भ्रातरौ तस्य निःसीमस्थामशोभिनौ । अपराविव दोःस्तम्भौ कुम्भकर्णविभीषणौ ॥३॥ देवतामिव कुलस्य स्वपूर्वपुरुषार्जिताम् । गृहे नवमहारत्नस्रजं सोऽपश्यदन्यदा ॥ ४ ॥ श्रयन्ते द्वादशादित्या नवादित्या इमे पुनः । दृश्यन्ते कथमित्येत| वृद्धान् पप्रच्छ तत्र सः॥५॥ अथाचचतिरे तस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनयेयं रखमालिका ॥६॥ इमां क्षिपेत यः कण्ठे स्यात्सोऽर्द्धभरतेश्वरः । इत्याम्नायात्तवाम्नाये पूज्यते पूर्वजैरसौ ॥ ७॥ ततस्तां सोऽक्षिपत्कण्ठे तद्रलेषु नवस्वपि । सक्रान्तास्यतया चासौ दशास्य इति पप्रथे ।।८॥ ततो जनैर्जयजयेत्यारावैरभिनन्दितः । सोऽभान्मूर्त इबोत्साहो जगद्विजयहेतवे ॥६॥ तस्यानवद्या विद्यास्ताः प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पार्श्वे सेना इवावसन् ॥ १०॥ ततो भरतवर्षाई स एकग्रामलीलया । दुःसाधं साधयामास दोःकण्डून त्वपूर्यत ॥ ११ ॥ पासीदितश्च वैताढयगिरौ विद्याधरेश्वरः । इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥ १२ ॥ विश्वैश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ॥ १३ ॥ शचीति स स्वमहिषीं स्वमस्त्रं वज्रमित्यपि । पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥ १४ ॥ सारथि मातलिरिति चतुरोऽ न्यान्महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ॥ १५॥ मन्यमानस्तृणायान्यानिन्द्रमन्यः स दोर्मदी । नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥ १६ ॥ तस्मै ततः प्रकुपितः कृतान्त इव दारुणः । रावणः श्रावणाम्भोदगर्जगजबलोऽचलत् ॥ १७॥ विद्यावलात्ससैन्योऽपि लङ्घयामास सोऽर्णवम् । विद्याधरास्तुल्ययाना भुव्यम्भसि नभस्यपि ॥ १८॥ स दिशश्छादयन् सैन्यवात्योधृतै रजश्चयैः । वैताढयं प्राप कल्पान्तमहावात इव सेना इवावसन् ॥ १९॥ यागिरी विद्याधरेश्वरः । इन्दना तु नापरम् ॥ १३ ॥ Mmss Education Interation For Personel Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy