________________
छक्कायदयावंतो वि संजो दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछियपिंडगहणे अ॥१॥ ततश्च भुञ्जानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि न भङ्गः। गृहस्थस्य तु येन दृष्ट भोजनं न जीर्यति स सागारिकः । आउंटणपसारणेणं-आउंटणं आकुश्चनं जवादेः संकोचनं प्रसारणं च तस्यैवाकुञ्चितस्य ऋजूकरणम् , आकुश्चने प्रसारणे चासहिष्णुतया क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानम् । गुरुअब्भुट्ठाणेणं-गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघुणेकस्य वाऽभ्युत्थानं प्रतीत्यासनत्यजनं गुर्वेभ्युत्थानं ततोऽन्यत्र । अभ्युत्थानं चावश्यकर्त्तव्यत्वाद् भुञ्जानेनापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । पारिद्वावणिआगारेणंपरिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नं तदेवाकारः पारिष्ठापनिकाकारः, ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसंभवात् , आश्रीयमाणे चागमिकन्यायेन गुणसंभवाच्च गुर्वाज्ञया पुनर्भुञ्जानस्य न भङ्गः। वोसिरइ इति, अनेकासनमशनाद्याहारं च परिहरति ।
अथेकस्थानकम् । तत्र सप्ताकाराः। अत्र सूत्रम्-एकट्ठाणं पच्चक्खाइ इत्याद्येकाशनवत् । आकुश्चनप्रसारणाकारवर्जमेकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् । यद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितम् , तस्मिंस्तथास्थित एवं भोक्तव्यम् । मुखस्य पाणेश्वाशक्यपरिहारत्वाञ्चलनं न प्रतिषिद्धम् । आकुञ्चनप्रसारणाकारवर्जनं चैकाशनतो भेदज्ञापनार्थम् , अन्यथैकाशनमेव स्यात् ॥
(१) षट्कायदयावानपि संयतो दुर्लभं करोति बोधिम् । आहारे नीहारे जुगुप्सितपिण्डग्रहणे च ॥१॥
Jain Education int
For Personal & Private Use Only
I
www.jainelibrary.org