SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीयः प्रकाशः। ॥२५४॥ अथाचामाम्लम् । तत्राष्टावाकाराः । अत्र सूत्रम् आयंबिलं पच्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसडेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह । आचामोऽवस्रावणम् , अम्लं चतुर्थो रसः, एते च प्रायेण व्यञ्जने यत्र भोजने ओदन-कुल्माष-सक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत प्रत्याख्याति-आचामाम्लप्रत्याख्यानं करोतीत्यर्थः । आद्यावन्त्याश्च त्रय आकाराः पूर्ववत् । लेवालेवेणं लेपो भोजनभाजनस्य विक्रत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपं तस्मादन्यत्र--भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः। उक्खित्तविवेगेणं शुष्कोदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्योध्धृतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेक उत्क्षिप्तत्याग इत्यर्थः, तस्मादन्यत्र-भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इति भावः । यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः। गिहत्थसंसद्वेणं गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टं ततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानभक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद् भुञ्जानस्यापि भङ्गः, यद्यकम्प्यद्रव्यरसो बहु न ज्ञायते । वोसिरइ इति-अनाचामाम्लं | चतुर्विधाहारं च व्युत्सृजति ।। अथाभक्ताथेप्रत्याख्यानम् । तत्र पश्चाकाराः, यत् सूत्रम् ॥२५४॥ Jain Education n n ai For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy