SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ सूरे उग्गए अब्भत्तहँ पञ्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह। सूर उद्गते सूर्योद्मादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध इत्याह भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास | इत्यर्थः । आकाराः पूर्ववत् । नवरं पारिष्ठापनिकाकारे विशेषः । यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते, पानके तूद्वरिते कल्पते । वोसिरइ इति भक्तार्थमशनादि च व्युत्सृजति ॥ अथ पानकम् । तत्र पौरुषीपूर्वार्धकाशनकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य षडाकारा भवन्ति, यत् सूत्रम् पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरइ। इह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वात् लेवाडेण वेति कृतलेपाद् वा पिच्छलत्वेन भाजनादीनामुपलेपकारकात खज्ररादिपानकादन्यत्र तद् वर्जयित्वेत्यर्थः । त्रिविधाहारं 'व्युत्सृजति' इति योगः। वाशब्दोऽलेपकृतपानकापेक्षयाऽवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेन भङ्ग इति भावः । एवमलेपकृताद् वाऽपिच्छलात ; अच्छाद् वा निर्मलादुष्णोदकादेः बहुलाद् वा गड्डुलात् तिलतन्दुलधावनादेः, ससिक्थाद् वा भक्तपुलाकोपेतादवस्रावणादेः, असिस्थाद् वा सिक्थवर्जितात् पानकाहारात् ।। Jain Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy