________________
योग
शास्त्रम्
१॥३२०॥
तथा
चतुर्षः अनन्तकायकन्दादिफलमूलदलाशिनाम् । कलत्रपुत्रयुक्तानां वनवासजुषामपि ॥ ३२ ॥
प्रकाशः तथा
भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ।। ३३॥ अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क धर्मः क्व फलं तस्य तस्य वाख्यातता कथम् ? ॥ ३४ ॥ जिनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्षते ॥ ३५ ॥ सस्यहेतौ कृषौ यद्वत पलालाद्यानुपङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम ॥ ३६ ॥ वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति ।। ३७ ॥
धर्मस्वाख्यातताभावना १० ॥ १०२॥ अथ लोकभावनामाहकटिस्थकरवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्ण स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥१०३॥ ___ कटिः श्रोणिस्तत्र तिष्ठत इति कटिस्थौ करौ यस्यासौ कटिस्थकरः, वैशाखं प्रसारितपादं तच्च तत् स्थानकं । |च तत्र तिष्ठति तत्स्थः , स चासौ नरश्च, तद्वदाकृतिर्यस्य तं लोकमाकाशचेत्रं चतुर्दशरज्जुप्रमाणं स्मरेदनुप्रेक्षेत । । किंविशिष्टम् ? द्रव्यैर्धर्माधर्मकालजीवपुद्गलैः पूर्णम् , किंविशिष्टैर्द्रव्यैः ? स्थित्युत्पत्तिव्ययात्मकैः स्थितिध्रौव्यम् ,
उत्पत्तिरुत्पादः, व्ययो विनाशस्ते आत्मानः खरूपं येषां तानि तथा । सर्वमपि हि वस्तु स्थित्युत्पादव्ययात्मकम् , ॥३२॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org