________________
शास्त्रम्
॥१७॥
| पल्वले सत्यपि ऊपरे क्षेत्रे शालीन् वपन्ति । यथा ह्यूपर क्षत्र शालिवपनं निरर्थक, तथा रात्राव मया भोक्तव्य- *
तृतीयः मिति निष्फलो नियमः। अधर्मनिवृत्तिरूपो हि नियमः फलवानयं तु धर्मनिवृत्तिरूप इत्यफलो विपरीतफलो वा॥६६॥।
प्रकाश:। रात्रिभोजनस्य फलमाहउलूकलाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥ ६७ ॥ रात्रिभोजनादलुकादिषु जन्म भवति। उलूकादय उपलक्षणं; तेनान्येष्वप्यधमतिर्यक्षु रात्रिभोजिनो जायन्ते । ६७॥ ___ बनमालोदाहरणेन रात्रिभोजनदोषस्य महत्तां दर्शयतिश्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः । निशाभोजनशपथं कारितो वनमालया ॥ ६८॥
श्रूयते रामायणे दशरथनन्दनो लक्ष्मणः पितृनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूवरनगरे महीधरराजतनयां वनमालामुपयेमे; ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्या वनमाला प्रतिमोचयति स्म; सा तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये ! राम | मनीपिते देशे परिस्थाप्य यद्यहं भवती स्वदर्शनेन न प्रीण यामि, तदा प्राणातिपातादिपातकिनां गतिं यामीति; सा तु तैः शपथैरतुष्यन्ती “यदि रात्रिभोजनकारिणां शपथं करोषि, तदा त्वां प्रतिमुश्चामि, नान्यथेति" तमुवाच स तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथाननादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः। विशेषचरितं तु ग्रन्थगौरवभयान्नेह लिख्यते ।। ६८ ॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org