SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पठनं, तपः कृच्छ्रचान्द्रायणादि, एतद्दमादि सर्वमपि न तु किश्चिदेव, अफलं पुण्यार्जनपापक्षयादिफलरहितं चेद्यदि हिंसां शान्तिकहेतुं कुलकमायाता वा न परित्यजेन परिहरेत् ॥ एवं तावन्मांसलुब्धानां शान्तिकार्थिना कुलाचारमनुपालयतां च या हिंसा सा प्रतिषिद्धा ॥ ३१॥ ___ इदानीं शास्त्रीयां हिंसां प्रतिषेधन शास्त्रत्वेन वाऽऽधिपति| विश्वस्तो मुग्धधीर्लोकः पात्यते नरकावनौ। अहो नृशंसर्लोभान्धैर्हिसाशास्त्रोपदेशकैः॥३२॥ __हिंसाशास्त्रं वक्ष्यमाणं तस्योपदेशका हिंसाशास्त्रोपदेशका मन्वादयस्तैः किंविशिष्टैर्नृशंसैर्निर्दयैः । दया-1 वान् हि कथं हिंसाशास्त्रमुपदिशेत । नृशंसत्वे हेतुमाह । लोभान्धैः मांसलोभान्धः स्वाभाविकविवेकविवेकिसंसर्गचक्षुरहितैः। यदाह एकं हि चक्षुरमलं सहजो विवेक-स्तद्वद्भिरेव सह संवसतिर्द्वितीयम्। एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्ध-स्तस्यापमार्गचलने खल्लु कोऽपराधः॥१॥ __अहो इति निर्वेदे, यतो विश्वस्तो विश्रब्धः, विश्वस्तत्वे हेतुर्मुग्धधीः। चतुरखुद्धिहि कृत्याकृत्यं विवेचयन् न प्रतारकवचस्सु विश्वसिति । लोकः प्राकृतो जनः पात्यते चेप्यते नरकावनौ नरकपृथ्व्याम् ॥ ३२॥ हिंसाशास्त्रमेव यदाहुरित्यनेन प्रस्तुत्य निर्दिशतियज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥३३॥ Jain Education intemartT For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy