SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम्। ॥६६॥ यज्ञार्थ यज्ञनिमित्तं स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः स्वयमेवेत्यर्थवादः । अस्य जगतो विश्व- द्वितीय: स्य यज्ञो ज्योतिष्टोमादिः भूत्यै भूतिर्विभवः, तस्मात्तत्र यो वधः स न वधो विज्ञेयः हिंसाजन्यस्य पापस्यानुत्पत्तेः। प्रकाश। एवमुच्यते । कथं पुनर्यज्ञे हिंसादोषो नास्ति ? उच्यते-हिंसा हिंस्यमानस्य महानपकारः प्राणवियोगेन पुत्रदारधनादिवियोगेन वा सर्वानर्थोत्पत्तेद॑ष्कृतस्य वा नरकादिफलविपाकस्य प्रत्यासचेः। यज्ञे तु हतानामुपकारो नापकारः नरकादिफलानुत्पत्तेः ॥ ३३॥ एतदेवाह औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा। यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्यु(च्छ्रिोति पुनः॥३४॥ ___औषध्यो दर्भादयः पशवश्छागादयः वृक्षा यूपादयः तिर्यश्चो गवारवादयः पक्षिणः कपिञ्जलादयः यज्ञार्थ यज्ञनिमित्तं निधनं विनाशं प्राप्ताः । यद्यपि केषाश्चित्तत्र निधनं नास्ति तथापि या च यावती च पीडा विद्यत इति सा निधनशब्देन लक्ष्यते । प्राप्नुवन्ति यान्ति उच्छ्रितिमुक्तर्ष देवगन्धर्वयोनित्वमुत्तरकुर्वादिषु दीर्घायुष्कादि च॥३४॥ ___ यावत्यः काश्चिच्छास्त्रे चोदिता हिंसास्ताः संक्षिप्य दर्शयतिमधुपर्के च यज्ञे च पितृदेवतकर्मणि। अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः॥ ३५ ॥ ___ मधुपर्कः क्रियाविशेषः तत्र गोवधो विहितः, यज्ञो ज्योतिष्टोमादिः तत्र पशुवधो विहितः, पितरो दैवतानि यत्र कर्मण्यष्टकादौ तच्च श्राद्धं पितृणां दैवतानां च कर्म महायज्ञादि ॥ ३५ ॥ T||४६ Lain Education internatio For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy