SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ योग तृतीयः प्रकाशः। शास्त्रम् ॥२३३॥ जय वीतराग ! जगद्गुरो! इति भगवतत्रिलोकनाथस्य बुद्ध्यां सविधानार्थमामन्त्रणम् , भवतु जायतां ममेत्यात्मनिर्देशः, तव प्रभावतः तव सामर्थ्येन, भगवमिति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याहभवनिर्वेदः संसारनिर्वेदः। न हि भवादनिर्विलो मोचाय यतते, अनिर्विष्मस्य तत्प्रतिबन्धान्मोचे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् । तथा मार्गानुसारिता असहविजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरमिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति तस्माच्चोपादेयप्रवृत्तिः । तथा लोकविरुद्धत्यागः सर्वजननिन्दादिलोकविरुद्धानुष्ठानवर्जनम् । यदाह सव्वस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूयणिज्जाणं ॥१॥ बहुजनविरुद्धसंगो देसाचारस्स लंघणं चेवं । उव्वणभोओ अ तहा दाणाइवियडमन्नेयो॥ २ ॥ साहुवसणम्मि तो सो सइ सामथम्मि अपडियारो अ। एमाइयाई इत्थं लोगविरुद्धाइं णेआई ॥३॥ गुरुजनस्य पूजा उचितप्रतिपत्तिगुरुपूजा, गुरवश्च यद्यपि धर्माचार्या एवोच्यन्ते तथापीह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम् माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ १॥ (१) सर्वस्य चैव निन्दा विशेषतस्तथा च गुणसमृद्धानाम् । ऋजुधर्मकरणहसनं रीढा जनपूजनीयानाम् ॥१॥ बहुजनविरुद्धसङ्गो देशाचारस्य लवनं चैव । उल्वणभोगश्च तथा दानादिविकटमन्यस्मात् ॥ २ ॥ साधुव्यसने तोषः सति सामर्थेऽप्रतिकारश्च । एवमादिकानि इत्थं (अत्र) लोकविरुद्धानि शेयानि ॥ ३ ॥ ॥२३३॥ Tiwww.jainalinkery.org Sain Education interes For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy