SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education International मन्त्येव विषयो यस्य सर्व्वतः । नैयत्यरहितं ज्ञानं तत्स्यादवधिलक्षणम् ||२|| स्यान्मनः पर्य्ययो ज्ञानं मनुष्य क्षेत्रवर्त्तिनाम् । प्राणिनां समनस्कानां मनोद्रव्यप्रकाशकम् ||३|| ऋजुश्च विपुलश्चेति स्यान्मनः पर्य्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥ ४ ॥ ६ ॥ केवलज्ञानलचणफलोपदर्शनेन योगमेव स्तौति - हो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । श्रवाप केवलज्ञानं भरतो भरताधिपः ॥ १०॥ अहो इत्याश्चर्ये प्राज्यं पुष्कलं साम्राज्यं चक्रवर्त्तित्वमुद्वहनेव न पुनस्त्यक्तराज्यसम्पत् । भरताधिपः षट्खण्ड भरत क्षेत्रस्वामी । तथाहि एतस्यामवसर्पिण्यामेकान्तसुषमारके । सागरोपमकोटीनां चतुष्कोटिमिते गते ॥ १ ॥ सागरोपमकोटीनां तिसृभिः कोटिभिर्मिते । अरके सुषमानाम्नि द्वितीयेऽपि गते सति ॥ २ ॥ तद्विकोटाकोटिमिते ग्रुपमदुःपमारके । पल्ल्याष्टमांशशेषे च दक्षिणार्द्धस्य भारते || ३ || सप्ताभूवन् कुलकरा इमे विमलवाहनः । चक्षुष्मांश्च यशस्वी चाभिचन्द्रोऽथ प्रसेनजित् । || ४ || मरुदेवश्च नाभिश्च तत्र नाभेर्गृहिण्यभूत् । मरुदेवेति सच्छील पवित्रितजगत्रया ॥ ५ ॥ तृतीयारस्य शेषेषु पूर्वलक्षेषु संख्यया । चतुरशीतौ सार्द्धाष्टमासे वर्षत्रयेऽपि च ।। ६ ।। तस्याश्च कुक्षौ सर्वार्थविमानादवतीर्णवान् । चतुर्दशमहास्वमसूचितः प्रथमो जिनः ||७|| नाभेश्व मरुदेव्याश्च तदा सम्यगजानतोः । स्वनार्थमिन्द्राः सर्वेऽपि व्याचक्रुः प्रमदोन्मदाः ॥ ८ ॥ ततः सुखेन जातस्य शुभे परमेशितुः । षट्पञ्चाशत् For Personal & Private Use Only P-1.03+1064000 www.jainvelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy