________________
तेरतुः ॥५॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुर्कीःस्थसन्निधौ ॥ ६॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमज्जनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् ।.७॥ द्वारस्थौ द्वारपालेन द्विजाती तो निवेदितौ । न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशत् ॥८॥ सनत्कुमारमालोक्य विस्मयस्मेरमानसौ। धूनयामासतुर्मीलिं चिन्तयामासतुश्च तौ ॥ ६ ॥ ललाटपट्टः पर्यस्ताष्टमीरजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ।। १० । दन्तच्छदौ पराभूतपकविम्बीफलच्छवी । निरस्तशुक्तिको कर्णो कण्ठोऽयं पाञ्चजन्यजित् ॥ ११ ॥ करिराजकराकारतिरस्कारकरौ भुजौ । स्वर्णशैलशिलालक्ष्मीविलुण्टाकमुरःस्थलम् ॥१२॥ मध्यभागो मृगारातिकिशोरोदरसोदरः। किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरः ॥ १३ ॥ अहो कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्गं न जानीमो ज्योत्स्नयोडुप्रभामिव ॥ १४॥ यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥ १५॥ किं निमित्तमिहायातौ भवन्तौ द्विजस|त्तमौ । इत्थं सनत्कुमारेण पृष्टौ तावेवरचतुः॥ १६ ॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशार्दूल गीयते ॥ १७ ॥ दूरतोऽपि तदाकर्ण्य तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ॥१८॥ वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप ततोऽप्येतत्सविशेष निरीक्ष्यते ॥१६॥ ऊचे सनत्कुमारोऽपि सितविस्फुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ २०॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ । यावनिवर्त्यतेऽस्माभिरेष मज्जनकक्षणः ॥२१॥ विचित्ररचिताकल्पं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काञ्चनम् ॥ २२ ॥ ततोऽवनिपतिः स्नात्वा कल्पिताकम्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बररत्नमि
www.jainelibrary.org
Iain Education intera
For Personal & Private Use Only