SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ कर्णानां सिंहकर्णानां हस्तिकर्णानां कर्णप्रावरणानामन्तरद्वीपाः॥ ततोऽष्टौ योजनशतान्यवगाह्य तावदायामविष्कम्भा उन्कामुखानां विद्युजिह्वानां मेषमुखाणां विद्युद्दन्तानामन्तरद्वीपाः ॥ ततो नव योजनशतान्यवगाय तावदायामविष्कम्भा घनदन्तानां गूढदन्तानां श्रेष्ठदन्तानां शुद्धदन्तानामन्तरद्वीपाः । एतेषु च मनुष्या युग्मप्रसवाः पन्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चा भवन्ति । तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽपि पूर्वोत्तरादिविदिक्षु अमुनैव क्रमेण नामकलापेन चान्तरद्वीपकानामष्टाविंशतिर्भवति, मिलिताः षट्पञ्चाशदन्तरद्वीपका भवन्ति।। मानुषोत्तरात्परतस्तु पुष्करवरद्वीपस्य द्वितीयमधं । पुष्करवरद्वीपात् परतस्तत्परिक्षेपी द्वीपद्विगुणविस्तारः पुष्करोदः समुद्रः । ततो वारुणिवरद्वीपसमुद्रौ, क्षीरवरद्वीपसमुद्रौ, घृतवरद्वीपसमुद्रौ, इक्षुवरद्वीपसमुद्रौ च भवतः । अष्टमो नन्दीश्वरद्वीपः, स च चतुरशीतिलक्षोपेतत्रिषष्टिकोट्यधिकयोजनकोटिशतप्रमाणवलयविष्कम्भो विविधविन्यासोद्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपातातिरुचिरःस्वेच्छाविविधक्रियादेवसंभोगरम्यः । तत्र तस्य मध्यभागे चतुसृषु दिक्षु चत्वारोऽञ्जनगिरयोऽञ्जनवर्णा बाह्यमेरुसमुच्छाया (८४००० योजन ) दशयोजन सहस्रातिरिक्तविस्तारा मूले, उपरि साहस्राः। ते च क्रमाद्देवरमणनित्योद्योतस्वयंप्रभरमणीयनामानः । तेषु जिनाal यतनानि योजनशतायामानि तदर्धविस्ताराणि द्विसप्ततियोजनोच्चानि । तत्र षोडशयोजनोच्चानि अष्टयोजनविस्ता राणि अष्टयोजनप्रवेशानि देवासुरनागसुपर्णाख्यामरनिवासानि तन्नामानि च चत्वारि द्वाराणि, तन्मध्ये माणपीठिकाः षोडशयोजनायामविस्तारा अष्टयोजनोत्सेधाः तदुपरि देवच्छन्दकाः साधिकायामोच्चकाः, तेषु प्रत्येकमृ (१) मूमौ दशयोजनसहस्रविस्ताराः इत्यपि ज्ञेयम्. (२) सहस्रयोजनविस्तारा इत्यर्थः । Jain Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy