________________
योगशास्त्रम्
प्रकाश:।
॥३०२॥
क्षणात् । अप्यकस्माद्विसमरैरपौधर्मलिनैपनैः ।। ७४ ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया । आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ।। ७५ ॥ विषयेष्वतिरज्यन्ते न्यायधर्मविबाधया। अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ।। ७६ ॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतिपातोत्थवेदनाविवशा इव ॥ ७७॥ पदार्थग्रहणेऽकस्माद् भवन्त्यपटुदृष्टयः। परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ।। ७८ । गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भापयन्ते परानपि ॥ ७६ ।। निश्चितच्यवनाश्चिहर्लभन्ते न रतिं कचित् । विमाने नन्दने वाप्यामगारालिङ्गिता इव ।। ८०॥ हा ! प्रिया ! हा ! विमानानि! हा वाप्यो! हा! & सुरद्रुमाः ! । क द्रष्टव्याः पुनर्पुयं हतदैववियोजिताः ? ॥ ८१॥ अहो ! स्मितं सुधावृष्टिरहो! बिम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ।। ८२ ॥ हा ! रत्नघटिताः स्तम्भाः हा श्रीमन्मणिकुट्टिम ! । हा ! वेदिका ! रत्नमय्यः ! कस्य यास्यथ संश्रयम् ? ॥ ८३ ॥ हा ! रत्नसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः ॥८४॥ हे ! पारिजात ! मन्दार ! सन्तान ! हरिचन्दन !। कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः ? ॥ ५॥ हा ! हा ! स्त्रीगर्भनरके वस्तव्यमवशस्य मे । हहाऽशुचिरसास्वादः कर्तव्यो मयका मुहुः ॥८६॥ हहा हा ! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विसोढव्यं बद्धेन निजकर्मणा ॥ ८७।। रतेरिव निधानानि क तास्ताः सुरयोषितः ? । काशुचिस्सन्दबीभत्सा भोक्तव्या नरयोषितः १ ॥८८॥ एवं स्वर्लोकवस्तूनि स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ॥18॥ (नवभिः कुलकम् ।) एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां, दुःखं केवलमेव मानसमथो शारीर
॥३०२॥
in Education Internation
For Personal & Private Use Only
www.jainelibrary.org