________________
मत्यायतम् ।ज्ञात्वैवं ममतानिरासविधये ध्यायन्तु शुद्धाशया अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ॥१०॥
॥ संसारभावना ३ ॥ ६७ ॥ अथैकत्वभावनां श्लोकद्वयेनाहएक उत्पद्यते जन्तुरेक एव विपद्यते। कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८ ॥ | एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरPणीयादीनि भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहणमुपलक्षणम् ,
इहजन्मकृतानामप्यनुभवात, यदाहर्भगवन्तः :-परलोअकडा कम्मा इहलोए वेइजंति, इहलोअकडा कम्मा इहलोए वेइजंति ।। ६८ ॥ तथाअन्यैस्तेनार्जितं वित्तं भूयः संभूय भुज्यते । स त्वेको नरकक्रोडे क्लिश्यते निजकर्मभिः ॥६९॥
तेनैकेन जन्तुनाऽर्जितं महारम्भपरिग्रहादिनोपार्जितं वित्तमन्यैः सम्बन्धिबन्धुभृत्यप्रभृतिभिः सम्भूय मिलित्वा भूयः पुनः पुनर्भुज्यते वित्तस्य विनियोगः क्रियते । स तु वित्तस्यार्जयिता एको भोक्तृलोकविरहितो नरककोडे | नरकोत्सङ्गे क्लिश्यते बाध्यते निजकर्मभिर्धनार्जनकालप्रचितैः पापकर्मभिः ॥ अत्रान्तरश्लोकाः
दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने । बम्भ्रमीत्येक एवासी जन्तुः कर्मवशीकृतः ॥१॥ ननु जीवस्य | (१) परलोककृतानि कर्माणि इहलोके वेद्यन्ते । इहलोके कृतानि कर्माणि इहलोके वेद्यन्ते ।।
Jain Education inted
For Personal & Private Use Only
www.jainelibrary.org