SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥३०३|| मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायोऽस्तु सुखदुःखानुभूतिदम् ॥ २ ॥ नायाति पूर्वभवतो न याति / चतुर्थः च भवान्तरम् । ततः कायः सहायः स्यात् संफटमिलितः कथम् ॥ ३॥ धर्माधर्मों समासन्नौ सहायाविति चेद् प्रकाशः। मतिः । नैषा सत्या न मोक्षेऽस्ति धर्माधर्मसहायता ॥ ४॥ तस्मादेको बम्भ्रमीति भवे कुर्वन शुभाशुभे । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ।। ५ ॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद द्वितीयस्य न सम्भवः ॥ ६ ॥ यद् दुःखं भवसम्बन्धि यत् सुखं भोक्षसम्भवम् । एक एवोपभुते तद् न सहायोऽस्ति कश्चन ॥७॥ यथैवैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणिपादादिसंयोजितपरिग्रहः ॥ ८॥ तथैव धनदेहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ ॥६॥ एकः पापात् पतति नरके याति पुण्यात खरेकः, पुण्यापुण्यप्रच्यविगमाद् मोक्षमेकः प्रयाति । एवं ज्ञात्वा चिरमवितथां निर्ममत्वस्य हेतो-रेकत्वाख्यामवहितधियो भावनां भावयन्तु ।। १० ॥ ॥ एकत्वभावना ४ ॥ ६६ ।। अथान्यत्वभावनामाहयत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ॥७॥ ___ यत्रेति प्रक्रमार्थमन्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्माद् भेदः ? शरीरिण आत्मनः सकाशात् । | कुतो हेतोः। वैसदृश्यात् । प्रतीतमेव हि वैसदृश्यं शरीरशरीरिणोर्मूर्तत्वातत्वाभ्याम , अचेतनत्वचेतनत्वाभ्याम् , अनित्यत्वनित्यत्वाभ्याम् , भवान्तरेष्वगमनगमनाभ्यां च । तत्रेति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न ॥३०३॥ Jain Education intonal For Personal & Private Use Only www.jalnelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy