________________
दुर्वचं न दुर्भणम् । केषाम् ? धनबन्धुसहायानां धनानां धनधान्यादिभेदैर्नवविधानाम् , बन्धूनां मातृपितृपुत्रादीनाम् , सहायानां सुहृत-सेवक-पच्यादीनाम् । अयमर्थ:-यो जीवात शरीरस्योपपच्या भेदं ग्राहितः स धनादिभ्यो भेदं ग्राहयितुं सुशक एवेति ॥ ७० ॥
न केवलमन्यत्वभावनाया निर्ममत्वमेव फलम् , किन्तु तत्फलान्तरमप्यस्ति, तदेवाहयो देहधनबन्धुभ्यो भिन्नमात्मानमीक्षते। क्व शोकशङ्कुना तस्य हन्तातङ्कः प्रतन्यते ॥७१॥ ___यः प्राणी देहाद् धनाद् बन्धुभ्यश्च भिन्नमात्मानं स्वमीक्षते विवेकालोकेन, तस्य भेदप्रेक्षितुः, क्व नैवेत्यर्थः,
शोकशङ्खना शोकशल्येन, हन्तेति हर्षार्थमव्ययम् , आतङ्कः पीडा प्रतन्यते क्रियते । अत्रान्तरश्लोकाः| इहान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्मदेहादिभावानां साक्षादेव प्रतीयते ॥ १॥ देहाद्या इन्द्रियग्राह्या आत्मानुभवगोचरः । तदेतेषामनन्यत्वं कथं नामोपपद्यते ।। २ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीच्यते ॥ ३॥ सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारा| दावात्मपीडोपजायते ॥ ४॥ ये तु देहात्मनोर्मेदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नात्मा प्रपीड्यते । ५॥ तथाहि लोहचक्रेण क्षरेयीपचनेन च । देहबाधेऽप्यबाधात्मा तद्भेदज्ञोऽन्तिमो जिनः ॥ ६॥ नमिर्धनात्मभेदज्ञः पूर्दाहेऽपीन्द्रमब्रवीत् । दाहेऽपि मिथिलापुर्या न मे किमपि दह्यते ॥ ७॥ भेदं विद्वान् न पीड्येत पितदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेपि मुह्यति ॥ ८॥ अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव
in Education in
For Personal & Private Use Only
www.jainelibrary.org