SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥३४॥ तद्गोलकद्वयम् ॥ ४॥ एकस्मात्कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवामलम् । देदीप्यमानमन्यस्मात्क्षौमयुग्मं च निःसृतम् द्वितीयः ॥५॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः॥६॥ राजा प्रकाशा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता। भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चकैः ॥ ७॥ कपिलोचे , विधत्से मां सर्वा स्वर्णमयीं यदि । हिनस्सि वा तथाऽप्येतदकृत्यं न करोम्यहम् ॥८॥ कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्च यत् । दास्येऽहमर्थमर्थस्य लोभात्त्वमसि सौनिकः ॥९॥ सूनायां ननु को दोषो यया जीवन्ति मानवाः। तां न जातु त्यजामीति कालसौकरिकोऽवदत् ॥ १० ॥ सूनाव्यापारमेषोत्र करिष्यति कथं न्विति । नृपः क्षिप्वाऽन्धकूपे तमहोरात्रमधारयत् ॥ ११॥ अथ विज्ञपयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ॥१२॥ सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृन्मयान् ॥ १३ ॥ तद्गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः। धिगहो मे पुरा कर्म नान्यथा भगवगिरः ॥ १४ ॥ पञ्च पश्च शतान्यस्य महिषान्निध्नतोऽन्वहम् । कालसौकरिकस्योच्चैः पापराशिरवर्द्धत ॥१५॥ इहापि रोगास्तस्यासन्दारुणैरतिदारुणाः। पर्यन्तनरकप्राप्तेरुपयुत्कलितैरषैः ॥ १६ ॥ हा तात हा मातरिति व्याधिबाधाकदर्थितः । वध्यमानः शूकरवत्कालसौकरिकोऽरटत् ॥ १७ ॥ सोऽङ्गनातूलिकापुष्पवीणाकणितमार्जिताः। दृष्टित्वमासिकाकर्णजिदाशूलान्यमन्यत ॥ १८॥ ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाभयायाभयदायिने ॥ १६ ॥ ऊचेऽभयस्त्वत्पिता यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां १ मार्जिता-सुगन्धिद्रव्यैः संस्कृतं दधि. ॥१४॥ in Education interna For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy