SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 0-110 Jain Education International प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बुद्ध्या प्रत्यक्षीकृतस्य भवतिः यथा जिनानामभावे जिनप्रतिनाया आरोपतजिनत्वायाः स्तुतिपूजासम्बोधनादिकं भवति, गुरोश्चाभिमुखीकरणं तदायत्तः सर्वो धर्म इति प्रदर्शनार्थम् । यदाह-नाणस्स होइ भागी थिएयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥ अथवा भवान्तहेतुत्वाद्भवान्तः, भन्ते इत्यात्वात् । मध्यव्यञ्जनलोपे रूपं भन्ते इति “ श्रत एत्सौ पुंसि मागध्याम् " || ८ | ४ | २८७ ॥ इत्येकारोऽर्द्धमागधत्वादार्थस्य । सामायिकमुक्तनिर्वचनम् । अवद्यं पापं, सहाव सद्यः, युज्यते इति योगो व्यापारस्तं प्रत्याख्यामि; प्रतीति प्रतिषेधे आहाऽभिमुख्ये ख्यांक प्रकथने, are प्रतीपमभिमुखं व्यापकं सावद्ययोगस्य करोमीत्यर्थः । अथवा पच्चक्खामीति प्रत्याचक्षे, चक्षिक् व्यक्तायां वाचीत्यस्य प्रत्याङ्पूर्वस्य रूपम् ; प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । जाय साहू पज्जुवासामिः यावच्छन्दः | परिमाण मर्यादाऽवधारणवचनस्तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत्प्रत्याख्यामीति; मर्यादायां साधुपर्युपासनादर्वाक्, अवधारणे यावत्साधुपर्युपासनं तावदेव न तस्मात्परत इत्यर्थः । दुहिं तिविहेणं; द्वे विधेयस्य स द्विविधः साबुद्यो योगः स च प्रत्याख्येयत्वेन कर्म सम्पद्यते; अतस्तं द्विविधं योगं करणकारणलक्षणमनुमतिप्रतिषेधस्य गृहस्थैः कर्तुमशक्यत्वात् पुत्रभृत्यादिकृतस्य व्यापारस्य स्वयमकरणेऽप्यनुमोदनात् । त्रिविधेनेति करणे तृतीया । मणें वायाए कारणं इति त्रिविधस्यैव सूत्रोपात्तं विवरणं मनसा वाचा कायेन चेति त्रिविधेन करणेन । न करोमि न कारयामीति सूत्रोपात्तमेव द्विविधमित्यस्य विवरणम् । किं पुनः कारणमुद्देशक्रममतिलङ्घन्य व्यत्यासेन ( १ ) ज्ञानस्य भवति भागी स्थिरतरको दर्शने चरित्रे च । धन्या यावत्कथायां (थं ) गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥ For Personal & Private Use Only +YUB-JK++ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy