SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ योग- शास्त्रम् तृतीयः प्रकाश ॥१७॥ दोषः १ नैवम्, यतेरिव देवनात्रपूजनादौ नाधिकारः। भावस्तवार्थ च द्रव्यस्तवोपादानम् ; सामायिके च सति संप्राप्ता भावस्तव इति किं द्रव्यस्तवकरणेन। यदाहदव्वत्थरोय भावत्थरो यदव्वत्थओ बहुगुणो त्ति बुद्धि सिया।अणिउणजणवयणमिणं छज्जीवहियं जिणा बिति ।। इह श्रावक: सामायिककर्ता द्विविधो भवति-ऋद्धिमाननृद्धिकश्च; योऽसावनृद्धिकः स चतुर्यु स्थानेषु सामायिकं करोति-जिनगृहे, साधुसमीपे, पौषधशालायां, स्वगृहे वा; यत्र वा विश्राम्यति, निर्व्यापारो वा आस्ते तत्र च । सत्र यदा साधुसमीपे करोति तदायं विधिः; यदि कस्माचिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति मा भूत्तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसंक्लेशः; तदा स्वगृहेऽपि सामायिकं कृत्वा ईयों शोधयन् , सावद्या भाषां परिहरन्, काष्ठलेष्ट्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमार्य च गृहन् , खेलसिङ्घाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च; एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधूनमस्कृत्य सामायिकं करोति यथा करेमि भंते सामाइयं सावजं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सामायिकसूत्रस्यायमर्थः–करेमि अभ्युपगच्छामि; भंते इति गुरोरामन्त्रणम् , हे भदन्त ! भदन्ते सुखवान् कन्याणवांश्च भवति; भदुङ् सुखकल्याणयोः, अस्य औणादिकान्तप्रत्ययान्तस्य निपातनात् रूपम् । आमन्त्रणं च (१) द्रव्यस्तवश्च भावस्तवश्च द्रव्यस्तवो बहुगुण इति बुद्धिः स्यात् । अनिपुणजनवचनमिदं षड्जीवहितं जिना ब्रुवते ॥१॥ ॥१७॥ in Education Interna For Personal & Private Use Only Mwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy