SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ दंतवणं तंबोलं चित्तं तुलसीकुहेडगाईयं । मडुपिप्पलिसुंठाई अणेगहा साइमं होइ ॥ १॥८१ ॥ उक्तानि त्रीणि गुणवतानि । अथ चत्वारि शिक्षाव्रतान्युच्यन्ते, तत्रापि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागलक्षणेषु चतुर्षु शिक्षाव्रतेषु प्रथमं सामायिकाख्यं शिक्षाव्रतमाहत्यतातरौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां विदुः सामायिकवतम् ॥८२॥ मुहूर्त मुहूर्त्तकालं, या समता रागद्वेषहेतुषु मध्यस्थता, तां सामायिकव्रतं विदुः; समस्य रागद्वेषविनिर्मुक्तस्य सतः आयो ज्ञानादीनां लाभ: प्रशमसुखरूप: समायः; समाय एव सामायिकम् , विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा सामायिकम् । तच्च सामायिकं मनोवाकायचेष्टापरिहारं विना न भवतीति त्यक्तातरौद्रध्यानस्सेत्युक्तं, त्यक्तसावद्यकर्मण इति च त्यक्तं सावधं वाचिकं कायिकं च कर्म येन तस्य । सामायिकस्थश्च श्रावकः गृहस्थोऽपि यतिरिव भवति । यदाह सामाइयमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुब्जा ॥१॥ अत एव तस्य देवस्नात्रपूजादौ नाधिकारः। नन्वहितं कर्म कुर्वाणस्य देवस्त्रात्रादौ को दोषः, सामायिक हि * सावधव्यापारनिषेधात्मकं, निरवद्यव्यापारविधानात्मकं च; तत्स्वाध्यायपठनपरिवर्तनादिवत् देवपूजादौ को | (१) दन्तपावनं ताम्बूलं चित्रं तुलसीकुहेडकादिकम् । मधुपिप्पलिसुण्ठ्यादि अनेकधा स्वादिमं भवति ॥ १॥ (२) सागायिक एव (के तु) कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥१॥ in Education For Personel Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy