SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीत्तपः ॥ ४०॥ महावतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद्यामं विहरतः समतैकाग्रचेतसः ॥ ४१ ॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगाकरिकुलं महायूथपतेरिव ॥ ४२ ॥ (युग्मं ) निष्कषायमुदासीनं निर्ममें निष्परिग्रहम् । तं पर्युपास्य पण्मासान् कथश्चि. त्तन्न्यवर्त्तत ।। ४३ ।। यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य ववृधिरे सम्पूर्णैर्दोहदैरिव ।। ४४ ॥ कच्छ्रशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्तवर्षशतानि सः॥४५॥ दुःसहान् सहमानस्य | तस्याशेषपरीपहान् । उपायनिरपेक्षस्य समपद्यन्त लब्धयः ॥ ६ ॥ अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कारश्चकारेत्यस्य वर्णनम् ॥ ४७ । चक्रवर्तिश्रियं त्यक्त्वा प्रचलत्तृणपूलवत् । अहो सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ ४ ॥ तपोमाहात्म्यलब्धासु सास्मपि हि लब्धिषु । शरीरनिरपक्षोऽयं स्वरोगान्न चिकित्सति ।। ४६ ।। अश्रद्दधानौ तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः ॥ ५० ॥ ऊचतुश्च महाभाग किं रोगैः परिताम्यसि । वैद्यावावां चिकित्सायो विश्व स्वैरेव भेषजैः ॥ ५१ ॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । तदहाय निगृह्णीवो रोगानुपचितांस्तव ॥ १२॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोचिकित्सको द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ५३ ॥ क्रोधमानमायालोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽनन्तदुःखदाः ।। ५४॥ तांश्चिकित्सितुमीशी चेयुवा त है चित्सितम् । अथो चिकित्सथो द्रव्य गेगांस्तगत पश्यतम् ॥ ५५ ॥ ततोऽङ्गुली गलत्पामा शीणां स्वकफविपुषा । लिमा शुन्यं रसेनेव द्राक् सुवर्णी (१) तौ। in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy