________________
तस्येवमचिन्तयत् ॥ ४०॥ यावदुत्थातुमीशोऽस्मि शब्दायितुमपीश्वरः । धर्माचार्यश्च भगवान् यावद् विहरते मम ॥४१॥ संलेखनामुभयथापि कृत्वा मारणान्तिकीम् । तावच्चतुर्विधाहारप्रत्याख्यानं करोम्यहम् ॥ ४२ ॥ चिन्तयित्वैवमानन्दस्तथैव विदधेऽपि च । विसंवदति चिन्तायाश्चेष्टितं न महात्मनाम् ॥ ४३ ॥ निराकासस्य कालेऽपि समत्वाध्यवसायिनः । तस्य जज्ञेऽवधिज्ञानं तदावरणशुद्धितः॥४४॥ तत्राजगाम भगवान् श्रीवीरो विहरंस्तदा। दूतिपलाशे समवासरचक्रे च देशनाम् ॥ ४५ ॥ गौतमश्च तदा भिक्षाचर्यया प्राविशत् पुरे । आत्तानपानः कोलाके ययावानन्दभूषिते ॥४६॥ मिलितं तत्र भूयांसं लोकं संजातविस्मयम् ।। ४७ ॥ शिष्यो जगद्गुरोर्वीरस्यानन्दो नाम पुण्यधीः । प्रपन्नानशनोऽस्तीहः निरीहः सर्वथापि हि॥४८॥ गौतमस्तु तदाकर्ण्य पश्याम्यमुमुपासकम् । इति बुद्धया जगामाथ तत्पोषधनिकेतनम् ॥४६॥ अकस्माद् रत्नवृष्टयाभं तमचिन्तितमागतम् । दृष्ट्वा सानन्दमानन्दोऽ वन्दतैवमुवाच च ॥५०॥ भगवन ! तपसाऽनेन क्लिष्टमुत्थातुमक्षमः। इहैवनभियोगेन यथा पादौ स्पृशामि ते॥५१॥ उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः । अवन्दत त्रिधानन्दश्चरणौ शिरसा स्पृशन् ॥ ५२ ।। किं भवत्यवधिज्ञानं भगवन् गृहमेधिनः । इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥५३॥ आनन्दोऽथावदत् स्वामिन् ! तर्हि मे गृहमेधिनः। अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ आपं च योजनशती पूर्वाग्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्व सौधर्मकल्पादा पश्यामि भगवन्नहम् । अधो रत्नप्रभायास्तु पृथव्या ा लोलुपाद् वनात् ।।५६॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्सालोचयास्य तत् ।। ५७ ।। आनन्दोऽप्यनवीदेतदस्ति मे तत, सतामपि । भावानामभिधाने किं भवेदालो
in Education International
For Personal & Private Use Only
www.jainelibrary.org