SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter K+9184 6-2016 ततो गुल्फे, ततो जङ्घायां ततो जानुनि, ततोऽप्यूरौ, ततो गुदे ॥ २८ ॥ ततो लिने, ततो नाभौ, ततस्तुन्दे, ततो हृदि, ततः कण्ठे, ततो रसनायां ततस्तालुनि, ततो नासाग्रे, ततो नेत्रयोः, ततो भ्रुवो:, ततो ललाटे, ततः शिरसि ।। २६ ।। एवं रश्मिक्रमेण मनो मरुता सह धारयन् स्थानात् स्थानान्तरं नीत्वा ब्रह्मपुरं नयेत् ॥ ३० ॥ ततस्तेनैवारोहक्रमेण पादाङ्गुष्ठान्तं मनो मरुता सहानयेत् ततो नाभिपद्ममध्यं नीत्वा वायुं विरेचयेत् ॥ ३१ ॥ अथ धारणायाः फलं श्लोकचतुष्टयेनाह , पादाङ्गुष्ठा जङ्घायां जानूरुगुदमेदने । धारितः क्रमशो वायुः शीघ्रगत्यै वलाय च ॥३२॥ ज्वरादिघाताय जठरे कायशुद्धये । ज्ञानाय हृदये कूर्मनाड्यां रोगजराच्छिदे ॥३३॥ कंण्ठे क्षुत्तनाशाय जिह्वाग्रे रससंविदे । गन्धज्ञानाय नासाग्रे रूपज्ञानाय चक्षुषोः ॥३४॥ भाले तद्रोगनाशाय क्रोधस्योपशमाय च । ब्रह्मरन्ध्रे च सिद्धानां साक्षाद्दर्शनहेतवे ॥३५॥ पादाङ्गुष्ठे, आदिशद्वात् पाष्णौ गुल्फे च, जङ्घायां, जानुनि, ऊरौ, गुदे, मेहने, क्रमेण धारितो वायुः शीघ्र- . गत्यै बलाय च भवति ॥ ३२ ॥ शेषं सुगमम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ अथ धारणामुपसंहृत्य पवनचेष्टितमाह अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् । चेष्टितं पवमानस्य जानीयाद्वतसंशयः ॥३६॥ स्पष्टः ॥ ३६ ॥ तद्यथा For Personal & Private Use Only *<>slole ---> www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy