SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् द्वितीयः प्रकाशः। ॥ २ ॥ ॥ ३३ ॥ रममाणस्तया सार्द्ध विचित्रालापपेशलम् । स एकयामामिव तां त्रियामामत्यवाहयत् ।। ३४ ॥ ततः प्रभातसमये ब्रह्मदत्तेन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररीणामिव ध्वनिः ॥ ३५॥ अकस्माजायते कोऽयं खे शब्दोऽनब्दवृष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुष्पवत्येवमत्रवीत् ॥ ३६॥ भगिन्यौ त्वद्विषो नाट्योन्मत्तस्येमे समागते । नाम्ना खण्डा विशाखा च विद्याधरकुमारिके ॥ ३७॥ तन्निमित्तं विवाहोपस्करपाणी इमे मुधा। अन्यथा चिन्तितं कार्य दैवं घटयतेऽन्यथा ॥ ३८ ॥ अपसर्प क्षणं तावद्यावत्चद्गुणकीर्तनैः । लभेऽहमनयोर्भावं त्वयि रागविरागयोः ॥३०॥ रागे रक्तां प्रेरयिष्ये पताकां तचमापतेः । विरागे चालयिष्यामि श्वेतां गच्छेस्तदाऽन्यतः ॥ ४० ॥ ब्रह्मदत्तस्ततोऽवादीन्मा भैषी र नन्वहम् । ब्रह्मसूनुः किमेते मे तुष्ट रुष्ट करिष्यतः ॥ ४१ ॥ उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिनः किन्तु मा विरौत्सुनभश्चराः ॥४२॥ तस्याश्चित्तानुवृत्त्या तु तत्रैवास्थात् स एकतः । अथ पुष्पवती श्वेतां पताकां पर्यचीचलत् ॥४३॥ ततः कुमारस्तां दृष्ट्वा तत्प्रदेशाच्छनैः शनैः । प्रियानुरोधादगमन हि भीस्तादृशां नृणाम् ।। ४४॥ आकाशमिव दुर्गा ( ) हमरण्यमवगाह्य सः । दिनान्तेऽर्क इवाम्भोधि प्रापदेकं महासरः ।। ४५ ।। ततः प्रविश्य तत्रासौ सुरेभ इव मानसे । स्नात्वा स्वच्छन्दमत्यच्छाः सुधा इव पपावपः ।। ४६ ॥ निःसृत्य ब्रह्मसूधरात्तीरमुत्तरपश्चिमम् । लताक्वणदलिस्वानः सौस्नातिकमिवाभ्यगात् ॥ ४७ ।। तत्र तेन द्रुमलताकुङ्गे पुष्पाणि चिन्वती। वनाधिदेवता साक्षादिव काप्यति सुन्दरी ॥ ४८ ॥ दध्याविति कुमारोऽपि जन्मप्रभृति वेधसः। रूपाण्यभ्यस्य २ सुस्नानपृच्छकमिव. ॥८२॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy