SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सर्वेन्द्रियाणां विषयान् गृहात्येकमपीन्द्रियम् । यत्प्रभावेन सम्मिन्नश्रोतोलन्धिस्तु सा मता ॥१॥८॥ तथाचारणाशीविषावधिमनःपर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासिकुसुमश्रियः ॥ ९ ॥ अतिशयचरणाच्चारणा अतिशयगमनादित्यर्थः । तत्सम्पनलब्धिरित्यर्थः । आशीविषलब्धिनिग्रहानुग्रहसामर्थ्यम् । अवधिज्ञानलब्धिमूर्त्तद्रव्यविषयं ज्ञानम् । मनःपर्यायज्ञानलन्धिर्मनोद्रव्यप्रत्यक्षीकरणशक्तिः। एता लन्धयो योगकल्पवृक्षस्य कुसुमभूताः। फलं तु केवलज्ञानं मोक्षो वा । भरतमरुदेव्युदाहरणाभ्यां वक्ष्यते । तथाहि द्विविधाश्चारणा ज्ञेया जङ्घाविद्योत्थशक्तितः । तत्राद्या रुचकद्वीपं यान्त्येकोत्पातलीलया ॥१॥ वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति दितीयेन यतो गताः ॥२॥ ते चोर्ध्वगत्यामेकेन समुत्पतनकर्मणा । गच्छन्ति पाण्डुकवनं मेरुशैलशिरःस्थितम् ॥ ३॥ ततोऽपि वलिता एकोत्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन प्रथमोत्पातभूमिकाम् ॥४॥ विद्याचारणास्तु गच्छन्त्येकनोत्पातकर्मणा । मानुषोत्तरमन्येन द्वीपं नन्दीश्वराहयम् ॥॥ तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः। यान्त्यायान्त्यर्द्धमार्गेऽपि तिर्यग्यानक्रमण ते ॥६॥ __अन्येऽपि बहुभेदाश्चारणा भवन्ति । तद्यथा आकाशगामिनः पर्यावस्थानिषण्णाः कायोत्सर्गशरीरा वा पादोत्पनिक्षेपक्रमाद्विना व्योमचारिणः । केचित्तु जलजङ्घाफलपुष्पपत्रश्रेण्याग्निशिखाधूमनाहारावश्यायमघवारिधारामर्कटकतन्तुज्योतीरश्मिपवनाद्यालम्बनगतिपरिणामकुशलाः । जलमुपेत्य वापीनिम्नगासमुद्रादिप्वकायिक in duinema For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy