SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ योग शाखम् ॥ १३ ॥ R-0906 K+106,0.0208.19.+1084-193 Jain Education International नुसारिण उभयपदानुसारिणश्च । तत्रादिपदस्यार्थं ग्रन्थं च परत उपश्रुत्य पटुतरमतयोऽनुश्रोतः पदानुसारिबुद्धयः । अन्त्यपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादाअर्थग्रन्थ विचार पटवः प्रतिश्रोतः पदानुमारिबुद्धयः । मध्यपदस्यार्थं ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावघिपरिच्छन्नपद समूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरण समर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः । बीजबुद्धिरेक पदार्थावगमादनेकार्थानामवगन्ता पदानुसारी स्वेकपदावगमात्पदान्तराणामवगन्तेति विशेषः । तथा मनोवाक्कायलिनः । तत्र प्रकृष्टज्ञानावरण वीर्यान्तरायक्षयोपशमविशेषेण वस्तुद्धत्यान्तर्मुहूर्त्तेन सकलश्रुनोदध्यवगाहनावदातमनसो मनोबलिनः । अन्तर्मुहूर्त्तेन सकलश्रुतवस्तूच्चारणसमर्थ वाग्बलिनः । अथवा पदवाक्यालङ्कारोपेतां वाचमुच्चैरुच्चारयन्तो ऽविरहितवाक्क्रमाहीन कण्ठा वाग्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भूता साधारण कायबलत्वात्प्रतिमयावतिष्ठमानाः श्रमक्रमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः । तथा चीरमधुसर्पिरमृतास्रविणो येषां पात्रपतितं कदन्नमपि क्षीरमधुमरिमृतरसवीर्यविपाकं जायते वचनं वा शरीरमानस दुःखप्राप्तानां देहिनां क्षीरादिवत्सन्तर्पकं भवति ते क्षीरास्रविणो मध्वास्रविणः सशस्रविणोऽमृतास्रविणश्च । केचिदक्षीणर्द्वियुक्तास्ते च द्विविधा अक्षीणमहानसा अक्षीण महालयाश्च । येषामसाधारणान्तरायचयेोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव बहुभ्यो दीयमानमपि न क्षीयते ते क्षीण महानसाः । अक्षीण महालयद्विप्राप्ताश्च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते तत्रासंख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परबाधारहिता स्तीर्थ करपर्षदी व सुखमासते । इति प्रज्ञाश्रमणादिषु महाप्रज्ञादयो महर्द्धयो दर्शिताः । For Personal & Private Use Only अन्त्यपदादर्थग्रन्थविचारणासमर्थ **10/8000-670% प्रथम प्रकाशः । ॥ १३ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy