________________
प्रकाशः
योग- रश्मिनिर्मुक्तमादित्यं रश्मियुक्तं हविर्भुजम् । यदा पश्येद्विपद्यत तदैकादशमासतः ॥१३८॥ शास्त्रम् रश्मयः किरणाः तद्वन्तमादित्यम् अन्येषु पश्यत्स्वपि यदा रश्मिहीनं पश्यति वहिं च रश्मियुक्तं पश्यति | ॥३५६॥ तदैकादशे मासे मृत्युः॥ १३८ ।। तथा
वृक्षाग्रे कुत्रचित् पश्येद्गन्धर्वनगरं यदि। पश्येत् प्रेतान् पिशाचान्वादशमे मासि तन्मृतिः॥१३९। ___ गन्धर्वनगरं सत्यनगरप्रतिबिम्बकं, तद्यदि वृक्षाने पश्येत्, प्रेतान् पिशाचान् वा यदि साक्षात् पश्येत् तदा दशमे मासे मृत्युः ॥ १३६ ॥ तथाछर्दि मूत्रं पुरीषं वा सुवर्णरजतानि वा। स्वप्ने पश्येद्यदि तदा मासान्नवैव जीवति ॥१४॥
स्पष्टः ।। १४० ॥ तथाहै। स्थूलोऽकस्मात् कृशोऽकस्मादकस्मादतिकोपनः। अकस्मादतिभीरुर्वा सासानष्दैव जीवति १४१ ____ अकस्मात् कारणाभावेन । शेषं स्पष्टम् ॥ १४१ ॥ तथासमग्रमपि विन्यस्तं पांशी वा कर्दमेऽपि वा।स्याच्चेखण्डं पदं सप्तमास्यन्ते म्रियते तदा ॥१४॥ ___ स्पष्टः । नवरं सप्तमास्या अन्ते ॥ १४२ ॥ तथातारां श्यामां यदा पश्येच्छुष्येदधरतालु च । न स्वाङ्गुलित्रयं मायाद्राजदन्तव्यान्तरे ॥१४३॥ ॥३५६॥
Lain Education inte
For Personal & Private Use Only
www.jainelibrary.org