________________
Jain Education Intern
ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमर्ज्यते ; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् १ । मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवाऽन्तः कोटिकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां चयादिसम्भवान्मिथ्यात्वसहितपाप कर्मसम्भवत्वमकारणम्, मोक्षकारणवैकन्यं तु तासु वक्तुमुचितम् । तच्च नास्ति । यतः -
जानीते जिनवचनं श्रद्धत्ते चरति चाऽऽर्यिका शबलम् । नास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥ १॥ इति तत्सिद्धमेतन्मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम् स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिचर्थ्याविधापनम्, स्वपुत्रीकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम्, सकृदन्यायप्रवृत्तौ शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनोपचारणं चेति । श्रावकेषु स्वधनवपनं यथा -- साधर्मिकाः खलु श्रावकस्य श्रावकाः, समानधार्मिकाणां व सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? । सा च खपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमन्त्रणम्, विशिष्ट भोजनताम्बूलवस्त्राभरणादिदानम्, आपन्निमग्नानां च खधनव्ययेनाप्यभ्युद्धरणम्, अन्तरायदोषाच्च विभवतये पुनः पूर्व भूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्य्यारोपणम्, प्रमाद्यतां च मारणवारण चोदनाप्रति चोदनादिकरणम्, वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथादिषु यथायोग्यं विनियोजनं, विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपोषधशालादेः
For Personal & Private Use Only
84.03.08CROK+***++0008-03
www.jainelibrary.org