SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् | ॥२६॥ | संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि॥१३९॥ तृतीयः संसर्गेऽपि संबन्धेपि, उपसर्गाणां सुरादिकतानाम, दृढव्रतपरायणाः प्रतिपन्नव्रतपालनपराः, कामदेवाद्याः प्रकाश: कामदेवप्रभृतयः, धन्या धर्मधनं लब्धारः, त इति भगवदुपासकत्वेन प्रसिद्धाः। धन्यत्वे विशेषहेतुमाह--लाध्याः प्रशस्यास्तीर्थकृतां श्रीमन्महावीरस्य. पूजायां बहुवचनम् । कामदेवकथानकं च संप्रदायगम्यम् । स चायम्, अनुगडं पतद्वंशश्रेणीभिरिव चारुभिः । चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥१॥ भोगिभोगायतभुजस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीद् महीपतिः ॥ २ ॥ अभूद् गृहपतिस्तस्यां कामदेवामिधः सुधीः । श्राश्रयोऽनेकलोकानां महातरुरिवाध्वनि ॥३॥ लक्ष्मीरिव स्थिरीभृता रूपलावण्यशालिनी। अभूद भद्राकृतिर्भद्रा नाम तस्य सधर्मिणी ॥ ४ ॥ निधौ षट् स्वर्णकोट्यः षड् वृद्धौ षड् व्यवहारगाः । ब्रजाः षद् चास्य दशगोसहस्रमितयोऽभवन् ।। ५ ॥ तदा च विहरन्नुर्वी तत्रो:मुखमण्डने । पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् ।।६।। कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥७॥ कामदेवस्ततो देवनरासुरगुरोः पुरः। प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः ॥ ८॥ प्रत्याख्यात् स विना भद्रां स्त्रीजान् षड्वजीं विना । निधौ वृद्धौ व्यवहारे षद् षट् कोटीविना वसु ॥९॥ हलपश्चशती मुस्वाऽत्याक्षीत् क्षेत्राण्यनांसि तु । दिग्यात्रिकाणि वोदृणि पञ्च पञ्च शतान्यते ॥ १०॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । विहाय वहनान्येष प्रत्याख्यद् वहनान्यपि ॥ ११ ॥ विनैकां गन्धकाषायीं स तत्याजाङ्गमार्जनम् । दन्तधावनमप्याामपास्य मधुयष्टिकाम् ।। १२ ॥ ऋते च क्षीरामलकात् फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च ॥२६॥ Lain Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy