________________
यो यो राग-द्वेष-क्रोध-मान-माया-लोभ-मोह-मन्मथा-ऽसूया-मत्सरादिदोषो बाधकश्चित्तप्रशान्तिवाहिकायास्तस्य तस्य दोषस्य प्रतिक्रियां प्रतीकारं चिन्तयेत् । तथाहि-रागस्य वैराग्यम् , द्वेषस्य मैत्री, क्रोधस्य क्षमा, मानस्य मार्दवम् , मायाया आर्जवम् , लोभस्य सन्तोषः, मोहस्य विवेकः, मन्मथस्य स्त्रीशरीराशौचभावना, असूयाया अनसूयत्त्वम् , मत्सरस्य परसंपदुत्कर्षेऽपि चित्तानाबाधा च प्रतिक्रिया मता । इदं चाशक्यमिति नाशङ्कनीयम् , दृश्यन्ते हि मुनयस्तत्तदोषपरिहारेण गुणमयमात्मानं विभ्रतः। अत एवाह-दोषमुक्तेषु यतिषु प्रमोदं व्रजन् । सुकर हि दोषमुक्तमुनिदर्शनेन प्रमोदादात्मन्यपि दोषमोक्षणम् ।। १३७ ।। तथादुःस्थां भवस्थिति स्थेम्ना सर्वजीवेषु चिन्तयन्। निसर्गसुखलग तेष्वपवर्ग विमार्गयेत्॥१३८॥ । ____दुस्था दुःखहेतुम् , भवस्थिति संसारावस्थानम् , चिन्तयन् विमृशन् , सर्वजीवेषु तिर्यग्-नारक-नरा-ऽमरेषुः तथाहि-तिरश्चां वध-बन्ध-ताडन-पारवश्य-क्षुत्-पिपासा-ऽतिभारारोपणा-ऽङ्गच्छेदादिभिः, नारकाणां च स्वा भाविक-परस्परोदीरित-परमाधार्मिककृतक्षेत्रानुभावजवेदनामनुभवतां क्रकचदारण-कुम्भीपाक-कूटशाल्मलीसमाश्लेष-वैतरणीतरणादिभिः, नराणां च दारिद्रयव्याधिपारवश्यवधबन्धादिभिः. सुराणां चेा-विषाद-विपक्षसंपद्दर्शनमरणदुःखानुचिन्तनादिभिर्दःस्थैव भवस्थितिः, तां स्थेम्ना स्थैर्येण चिन्तयंस्तेषु सर्वजीवेष्वपवर्ग मोक्षम, किंविशिष्टम् ? निसर्गसुखसर्ग निसर्गेण सुखसंसर्गो यत्र तम्, विमार्गयेदाशंसेत-कथं नु नाम सर्वे संसारिणः सकलदुःखविमोक्षेण मोक्षेण संयुज्येरनिति ।। १३८॥
इदमपि निद्राच्छेद चिन्तयेत्
Jan Education
For Personal Private Use Only
Tiwww.jainelibrary.org