SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ योग- शास्त्रम् ॥२६॥ शस्त्रेण जिगीषत्ययम् , तदा तुच्छं पिच्छमेव सुलभमपूति च किं नादत्ते ? इदं हि विस्मृतमस्य मूढधियः, तृतीयः यल्लौकिकाः पठन्ति प्रकाशा अर्के चेद् मधु विन्देत किमर्थ पर्वतं व्रजेत् ? । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् १ ॥१॥१३५।। तथा इदमपि निद्राच्छेदे चिन्तयेत्सङ्कल्पयोनिनानेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत्।१३६ सङ्कल्पः कल्पनामात्रं योनिः कारणं यस्य न तु वास्तवं किञ्चित कारणमित्यर्थस्तेन, अनेन सकलजगत्संवेदनसिद्धेन, हहा इति खेदे, विश्वं जगद् ब्रह्म-हरि-हर-संक्रन्दनप्रभृतिक कीटपर्यवसानं तैस्तैः स्त्रीदर्शनालिङ्गनस्सरणादिभिः प्रकारविडम्बितं विगोपितम् । श्रूयते हि पुराणे-हरगौरीविवाहोत्सवे पुरोहितीभूतः पितामहो, गौरीप्रणयप्रार्थनासु हरः, गोपीचाटुकर्मणा श्रीपतिः, गौतमभार्यायां रममाणः सहस्रलोचनः, बृहस्पतेर्भार्यायां तारायां चन्द्रः, अश्वायामप्यादित्यो विडम्बना प्रापितः । तदनेनासारणासारहेतूद्भवेन च यद् विश्वं विडम्ब्यते तदसाम्प्रतम् । तत् तस्मादिदानीमस्यैव जगद्विडम्बनकर्तुः सङ्कल्पलक्षणं मृलमुत्खनामि उन्मूलयामि । इति स्त्रीशरीरस्थाशुचित्वमसारत्वं सङ्कल्पयोन्युपकरणत्वं च विचिन्तयेदिति प्रकुतयोजना ॥ १३६ ॥ तथा, इदमपि निद्राच्छेदे चिन्तयेत्यो यः स्याहाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोद यतिषुवजन् १३७ । ॥२६६॥ Jain Education imaginal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy