SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः। स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः।१३३। यकृत् कालखण्डम् शकृद् विष्ठा, मला दन्ताद्युपलेपाः, श्लेष्मा कफा, मजा षष्ठो धातुः, अस्थीनि पञ्चमो धातुः, एभिः परिपूरिताः स्त्रियः स्त्रीशरीराणि, चर्मप्रसेविका भत्राः, अत एव बहिरेव रम्याः। भत्रा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, खियोऽप्येवम् । भनाश्च स्यूता भवन्ति, अत एव स्नायुस्यूताः स्नायुभिः नसादिभिः स्मृता इव स्यूताः॥ १३३ । तथावहिरन्तविपर्यासः स्त्रीशरीरस्य चेद्भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम्॥१३४॥ बहिश्चान्तश्च, तयोविपर्यासो विनिमयः बहिर्भागोऽन्तर्भवेत् , अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेद् यदि भवेत् , तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृध्रगोमायुगोपनं गृध्रगोमायुभ्यो रक्षणं कुर्यात् । गृध्रगोमायुग्रहणं दिवानिशं रक्षणीयताप्रतिपादनार्थम् गृध्रा हि दिवा प्रभविष्णवः, गोमायवश्च रात्रौ । ततस्त्रीशरीरस्य | विपर्यासे नक्तंदिनं कामुको गृध्रगोमायुरक्षणव्याकुल एव स्यात् , रे तत्परिभोगः ॥ १३४ ॥ तथास्त्रीशस्त्रेणापि चेत् कामो जगदेतजिगीषति। तुच्छपिच्छमयं शस्त्रं किं नादत्तेस मूढधीः?।१३५॥ स्येव शस्त्रं स्त्रीशस्त्रं तेन जगद्विजयार्थमुपात्तेन, अपीत्यनादरे, चेयदि, कामो मन्मथः, एतजगत् त्रैलोक्यास्मकम् , जिगीषति जेतुमिच्छति, तदा स मूढधीः कामः तुच्छ काकादीनां यत् पिच्छं तन्मयं शस्त्रं किं नादत्ते कुतो हेतोर्न गृह्णाति ? । अयमर्थः यद्यसारेण रसामुग्मांसमेदोऽस्थिमजशुक्रपूरितेन बहुप्रयासलभ्यन स्त्रीरूपेण in Education inter For Personal & Private Use Only Blwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy