________________
योग
तृतीयः प्रकाशः।
शास्रम्
॥२०१॥
प्रमादाचरितस्यातिचारा, इत्यवसिता गुणवतातिचाराः ॥ ११५ ॥
___ अथ शिक्षाव्रतातिचारावसरः । तत्रापि सामायिकस्य तावदतिचारानाहकायवाङमनसां दृष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामायिकवते ॥११६॥ __ कायस्य वाचो मनसश्च प्रणिहितिः प्रणिधानम्, दुष्टं च तत्प्रणिधानं दुष्टप्रणिधानं सावद्ये प्रवर्तनं कायदुप्रणिधानं, वाग्दष्प्रणिधानं, मनोदुष्प्रणिधानं चेत्यर्थः । तत्र शरीरावयवानां पाणिपादादीनामनिभृतताऽवस्थापन कायदष्प्रणिधानम्, वर्णसंस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्प्रणिधानम, क्रोधलोभद्रोहाऽभिमानेादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानम् एते त्रयोऽतिचाराः । यदाहुः---
अनिरिक्खियापमज्जियथण्डिल्ले ठाणमाइ सेवन्तो । हिंसाभावे वि न सो कडसामाइओ पमायाउ ॥१॥ कडसामाइउ पुचि बुद्धीए पेहिऊण भासिज्जा । सइ निरवजं वयणं अन्नह सामाइयं न हवे ॥२॥ सामाइयं तु काउं घरचिन्तं जो उ चिन्तए सड्ढो । अट्टवसट्टोवगओ निरत्थयं तस्स सामाइयं ॥३॥ तथाऽनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणम्, यथाकथश्चिद्वा करणम्, प्रबलप्रमादादिदोषात (१) अनिरीक्षिताऽप्रमार्जितस्थण्डिले स्थानादि सेवमानः । हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ॥१॥ कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ २॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयेत् श्राद्धः । आर्तवशार्तोपगतो निरर्थकं तस्य सामायिकम् ।। ३ ।।
प्रधानम्, वर्णनादुष्प्रणिधानपानम्, दुष्टच न
नादुष्प्रणिधानम् एतगमश्चापलं च शरीरावयवानां पा
||२०१॥
Sain Education International
For Personal & Private Use Only
www.jainelibrary.org