________________
तथा सति हि यः कश्चित् संयुक्तमधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेन परः प्रतिषेधयितुं शक्यते ।। एतच्च हिंस्रप्रदानरूपस्यानर्थदण्डस्यातिचारः १। तथा उपभोगस्योपलक्षणत्वाद्भोगस्य चोक्तनिर्वचनस्य यदतिरिक्तत्वमतिरेकः सा उपभोगातिरिक्तता । अयं प्रमादाचरितस्यातिचारः । इह च स्नानपानभोजनचन्दनकुकुमकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः। अत्रापि वृद्धसम्प्रदायः-अतिरिक्तानि बहूनि तैलामलकानि यदि गृह्णाति, तदा तल्लौन्येन बहवः स्नानार्थ तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिकः स्यात् न चैवं कल्पते, ततः को विधिः? तत्र स्नानेच्छुना तावद्गह एव स्नातव्यम् तदभावे तु तैलामलकैगृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति । तथा येषु पुष्पादिषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यमिति द्वितीयोऽतिचारः २ । तथा मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटः तस्य भावो मौखयं धाप्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखये सति पापोपदेशसम्भवादिति तृतीयः३। तथा कुदिति कुत्सायां निपातो, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भ्रनयनौष्ठनासाकरचरणमुखविकारैः सङ्कुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम्, अनेकप्रकारा भण्डादिविडम्बनक्रिया इत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः कुकुचः सङ्कोचादिक्रियाभाक् तद्भावः कौकुच्यम्, अत्र च येन परो हसति, आत्मनश्च लाघवं भवति, न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातिचार इति चतुर्थः४। तथा कन्दर्पः कामस्तद्धेतस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । इह च सामाचारी-श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवतीति पञ्चमः ५। एतौ द्वावपि
in Education International
For Personal & Private Use Only
www.jainelibrary.org