SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ करणानन्तरमेव पारणं च । यदाहुः काऊण तक्खणं चित्र पारेइ करेइ वा जहिच्छाए । अणवट्टियसामाइयं अणायराओ न तं सुद्धं ॥१॥ इति चतुर्थः ॥ ४॥ स्मृतौ स्मरणे सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थापनं सामायिक मया कर्तव्यं न कर्तव्यमिति वा, सामायिकं मया कुतं न कृतमिति वा, प्रबलप्रमादाद्यदा न स्मरति तदा अतिचारः, स्मृतिमूलत्वान्मोक्षसाधनाऽनुष्ठानस्य । यदाहुः ने सरह पमाय जुत्तो जो सामाइयं कया य कायव्वं । कयमकयं वा तस्स ह कयं पि विहलं तयं नेयं ॥१॥ ननु कायदुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एवोक्तः, अतिचारश्च | मालिन्यरूप एव भवतीति कथं समायिकाभावे स भवेत् १, अतो भङ्गा एवैते नातिचारा इति चेत उच्यते अनाभोगतोऽतिचारत्वम् । ननु द्विविधं त्रिविधेन सावधप्रत्याख्यानं सामायिक, तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनितं च प्रायश्चित्तं विधेयं स्यात् मनोदुष्प्रणिधानं चाशक्यपरिहारं मनसोऽनवस्थितत्वादतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी । यदाहुः-" अविधिकृताद्वरमकृतमिति” । नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र च मनसा वाचा कायेन सावद्यं न करोमि न कारयामीति षट् प्रत्याख्यानानि इत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च (१) कृत्वा तत्क्षणमेव पारयति करोति वा यथेच्छम् । अनवस्थितसामायिकमनादराद् न तत् शुद्धम् ॥ १॥ (२)न स्मरति प्रमादयुक्तो यः सामायिक कदा च कर्तव्यम् । कृतमकृतं वा तस्य खलु कृतमपि विफलं तज्ज्ञेयम् ।।१।। in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy