SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ३४० ॥ *********-** Jain Education Infern सुखं सुखावहं आस्यतेऽनेन श्रास्ते वाऽनेन तदासनं, सुखं च तदासनं च तेनासीनः श्रनेनासनजयमाह । सुश्लिष्टौ मिलितावघरपल्लवौ यस्य स तथा अनेन प्राणप्रसरनिषेधमाह । नासाग्रे न्यस्तं हरद्वन्द्वं येन स तथा अन प्राणजस्य हेतुमाह । दन्तैरुपरितनैरधस्तनैश्च दन्तानुपरितनानवस्तनांश्चासंस्पृशन्, तत्संस्पर्शे हि ध्यान - निश्चलता न स्यात् । तथा प्रसन्नं रजस्तमोरहितत्वेन प्रसादवत् भ्रूविक्षेपादिरहितं वदनं यस्य सः । तथा पूर्वाभिमुखो वा उदङ्मुखो वा, अनेनानयोर्दिशोः पूज्यत्वमाह । जिनजिनप्रतिमाभिमुखो वा । श्रप्रमत्तः प्रमादरहितः, मुख्यमधिकारिणमाह । यदाह – धर्म्यमप्रमत्तसंयतस्य शोभनमृज्वायतमूर्त्तिकं संस्थानं शरीरसन्निवेशो यस्य स तथा । एवंविधः सन् ध्याता ध्यानोद्यतो भवेत् ध्याने उद्यच्छेत् । इति निगदितमेतत्साधनं ध्यानसिद्धे- येतिगृहिगतभेदाद्भिन्नरत्नत्रयं च । सकलमपि यदन्यध्ध्यानभेदादि सम्यक् प्रकटितमुपरिष्टादष्टभिस्तत्प्रकाशैः ॥ १ ॥। १३५ ।। १३६ ।। इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नानि संजातपट्टबन्धे श्रीयोगशास्त्रे खोपज्ञं चतुर्थप्रकाशविवरणम् ॥ 0000000000 इति योगशास्त्रे प्रथमो विभागः 0000000000000000 For Personal & Private Use Only 0.04 ************ चतुर्थः प्रकाशः । ॥ ३४० ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy