SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥ १७॥ तचाख्यातुं समारेभे मन्त्रिसूब्रह्मसूनवे । प्रतिलेखं हारबद्धलेखस्येयमयाचत ॥ १८॥ श्रीब्रह्मदत्तनामाङ्को लेखोऽयं प्रथयस्व तत् । को ब्रह्मदत्त इति सा मया पृष्टेदमब्रवीत् ॥ १६॥ अस्ति श्रेष्ठिसुता रत्नवती नामेह | पत्तने । रूपान्तरेण कन्यात्वं प्रपन्नेव रतिर्भुवि ॥२०॥ भ्रातुः सागरदत्तस्य बुद्धिलस्य च तद्दिने । कुक्कुटायोधनेऽपश्यद्ब्रह्मदत्तमिमं हि सा ।। २१॥ ततःप्रभृति ताम्यन्ती कामार्ता सा न शाम्यति । शरणं ब्रह्मदत्तो मे स एवेत्याह चानिशम् ॥ २२ ॥ स्वयं लिखित्वा चान्येधुर्लेख हारेण संयुतम् । अर्ग्यतां ब्रह्मदत्तस्येत्युदित्वा सा ममार्पयत् ॥ २३ ॥ दासहस्ते मया लेखः प्रेषीत्युक्त्वा स्थिता सती । मयापि प्रतिलेखं तेऽर्पयित्वा सा व्यसृज्यत ॥ २४ ॥ दुर्वारमारसन्तापः कुमारोऽपि ततो दिनात् । मध्याह्नार्ककरोत्तप्तः करीव न सुखं स्थितः ॥२५॥ कौशाम्बीस्वामिनोऽन्येधुदीर्घेण प्रहिता नराः । नष्टशल्यवदङ्गे तो तत्रान्वेष्टुं समाययुः ॥२६॥ राजादेशेन कौशाम्ब्यां प्रवृत्तेऽन्वेषणे तयोः । सागरो भृगृहे क्षिप्त्वा तौ जुगोप निधानवत् ॥ २७ ॥ निशि तौ निर्यियासन्ती रथमारोप्य सागरः। कियन्तमपि पन्थानं निनाय ववले ततः ॥ २८॥ तौ गच्छन्तौ पुरो नारीमुद्याने समपश्यताम् । अस्त्रपूर्णरथारूढाममरीमिव नन्दने ॥ २६ ॥ लग्ना किमियती वेला युवयोरिति सादरम् । तयोक्तौ तौ वभाषाते कावावां वेत्सि वा कथम् ॥ ३०॥ अथाभाषत सा पु-मस्यां श्रेष्ठी महाधनः । धनप्रवर इत्यासीद्धनदस्येव सोदरः॥३१॥ श्रेष्ठिश्रेष्ठस्य तस्याहमष्टानां तनुजन्मनाम् । उपरिष्टाद्विवेकश्री/गुणानामिवाभवम् ॥ ३२ ॥ उद्यौवनास्मिन्नुद्याने यक्षमाराधयं बहु । अत्युत्तमवरप्राप्त्यै स्त्रीणां नान्यो मनोरथः ॥३३॥ तुष्टो भक्त्यैष मे यक्षवरो वरमिदं ददौ । ब्रह्मदत्तश्चक्रवर्ती तव भर्चा भविष्यति ॥३४॥ सागरबुद्धि in Education Inter For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy