SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥८५॥ लश्रेष्ठिकुक्कुटाजौ य एष्यति । श्रीवत्सी ससखा तुल्यरूपो ज्ञेयः स तु त्वया ॥ ३५ ॥ मदायतनवर्तिन्याः प्रथमस्ते म द्वितीयः भविष्यति । मेलको ब्रह्मदत्तेन तजाने सोऽसि सुन्दर ॥३६॥ एोहि तन्मां विरहदहनाता चिरादिह । विध्यापय प्रकाशः। पयःपूरेणेव सङ्कन सम्प्रति ॥ ३७ ॥ तथेति प्रतिपद्यास्या अनुरागमिवालघुम् । सोऽधितष्ठौ रथं तां च गन्तव्यं क्वेति पृष्टवान् ॥ ३८॥ सत्यूचे मगधपुरे मत्पितव्यो धनावहः । अस्ति श्रेष्ठयावयोर्बढी प्रतिपत्तिं स दास्यति ॥ ३९ ॥ तदितस्तत्र गन्तव्यमिति रत्नवतीगिरा । ब्रह्मसूमन्त्रिपुत्रेण सूतेनाश्वाननोदयत् ॥ ४० ॥ कौशाम्बीदेश मुल्लङ्घन्य क्षणेन ब्रह्मनन्दनः । क्रीडास्थानं यमस्येव प्राप भीमां महाटवीम् ॥ ४१ ॥ सुकण्टकः कण्टकश्च तत्र चौरचमृपती । ब्रह्मदत्तं रुरुधतुः श्वानाविव महाकिरिम् ॥ ४२ ॥ ससैन्यौ युगपत् कालरात्रिपुत्राविवोत्कटौ। शरैनेभो मण्डपवच्छादयामासतुश्च तौ ॥ ४३ ।। प्रात्तधन्वा कुमारोऽपि गर्जेश्चौरवरूथिनीम् । निषिषधेषुभिर्धारासारैर्दवमिवाम्बुदः॥४४ ॥ कुमारे वर्षति शरान् ससैन्यौ तौ प्रणेशतुः । हन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः ॥ ४५ ॥ कुमारं मन्त्रिसूरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहूर्त स्वपिहि खामिंस्तदिहैव रथे स्थितः ॥ ४६॥ स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः । सुष्वाप गिरिनितम्बे करिण्येव करी युवा ॥४७॥ विभातायां विभाव- प्राप्यैकामथ निम्नगाम् । तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत ॥४८॥ विबुद्धस्तु स नापश्यत्स्यन्दने मन्त्रिनन्दनम् । पयसे किं गतः स्यादित्यसकृद् व्याजहार तम् ॥ ४६ ॥ सोऽलब्धप्रतिवाग् दृष्ट्वा रथाग्रं रक्तपङ्किलम् । विलपन् हा हतोऽस्मीति मूच्छितो न्यपतद्रथे ॥५०॥ उत्थितो लब्धसंज्ञः सन् हाहा वरधनो सखे । कासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥५१॥ विपन्नो ॥५॥ in Education internal For Personal & Private Use Only 21 www.janelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy