SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१४॥ द्वितीयः प्रकाशः। राजाभृदजितस्वामी सगरो युवराट् पुनः । ३।। प्रवत्राजाजितस्वामी गते काले कियत्यपि । राजाऽभूत्सगरश्चक्रवर्ती ऋषभमूनुवत् ॥ ४ ॥ अथ षष्टिसहस्राणि जज्ञिरे तस्य सूनवः । खेदच्छिदः संश्रितानां शाखा इव महातरोः ॥॥ ज्येष्ठो जहनुः कुमारोऽभूत्तेषां सगरजन्मनाम् । तेनैकदा तोपितोऽदाद्देवतेव पिता वरम् ।। ६ ॥ त्वत्प्रसादेन दण्डादिरत्नैः सह सबान्धवः । महीं विचरितुं वाञ्छामीति जनुरयाचत ॥७॥ तद्दत्वा सगरेणापि विसृष्टः प्राचलत्ततः। जह्नुहृतसहस्रांशुः सहस्रै'छत्रमण्डलैः॥ ८॥ ऋडया महत्या भक्त्या चार्हचैत्यानि पदे पदे । सोर्चयन् विचरन्नुवीं ययावष्टापदं क्रमात् ॥ ६॥ तमष्टयोजनोच्छ्रायं चतुर्योजनविस्तृतम् । आरोहत्सह सोदर्यै जह्नुर्मितपरिच्छदः ॥ १०॥ तत्रैकयोजनायाममर्द्धयोजनविस्तृतम् । त्रिगव्यूत्युन्नतं चैत्यं चतुरं विवेश सः॥११॥ बिम्बानि स्वस्वसंस्थानमानवर्णानि तत्र सः। अर्हतामृपभादीनां यथावत्पर्यपूजयत् ॥ १२ ।। ववन्दे भरतभ्रातृशतस्तूपांश्च पावनान् । किश्चिद्विचिन्त्य श्रद्धालुरुचरेवमुवाच च ॥१३॥ अष्टापदसमं स्थानं मन्ये क्वापि न विद्यते । कारयामो वयं यत्र चैत्यमेतदिवापरम् ॥ १४ ॥ मुक्तोऽपि भरतं भुक्ते भरतश्चक्रवर्त्य हो । शैले भरतसारेऽस्मिश्चैत्यव्याजादवस्थितः ॥१।। एतदेव कृतं चैत्यमस्माभिश्चेद्विधीयते । भविष्यत्पार्थिवैरस्य लुप्यमानस्य रक्षणम् ॥१६॥ ततःसुरसहस्राधिष्ठितमादाय पाणिना। स दण्डं भ्रामयामास परितोष्टापदाचलम् ॥१७॥ चले योजनसहस्रदीर्णा कृष्माण्डवन्मही। भ्राम्यता तेन भिन्नानि नागानां भुवनानि च ॥१८॥ तैर्भीतैःशरणं भेजे स्वस्वामी ज्वलनप्रभः। सज्ञात्वाऽवधिनोपेत्य जनुमित्यब्रवीत् क्रुधा ॥१६॥ अनन्तजन्तुनिर्घातकारणं किमकारणं । भवद्भिर्विदधे मर्दारुणं भूमिदारणम् ॥२०॥ अजितस्वामिभ्रातृव्यैः पुत्रैः सगरचक्रिणः। किमेतक्रियते पापमरे रे। कुलपासनाः॥२१॥ ॥१४॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy