SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ कुशास्त्रश्रवणं सङ्गो मिथ्याग्भिः कुवासना । प्रमादशीलता चेति स्युर्योधेः परिपन्थिनः ।। ६ ।। चारित्रस्यापि संप्राप्तिर्दुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निःफलाऽन्यथा ।। ७ ।। अभव्या अपि चारित्रं प्राप्य ग्रैवेयकादिषु । उत्पद्यन्ते विना बोधि त्वाप्नुवन्ति न निर्वृतिम् ॥ ८ ॥ असंप्राप्ते बोधिरत्ने चक्रवर्त्यपि रङ्कवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात्ततोऽधिकः ।।६ ॥ संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वाद्भजन्त्येकं मुक्तिमार्गमनर्गलाः ।।१०।। ये प्राप्ताः परमं पदं तदपरे प्राप्स्यन्ति ये केऽपि वा, ये वा केचिदवाप्नुवन्ति विकसत्पुण्यर्द्धयः संप्रति । सर्वेऽप्यप्रतिमप्रभावविभवां बोधि समासाद्य ते, तस्माद्बोधिरुपास्यतां किमपरं संस्तूयतां श्रूयताम् ॥ ११ ॥ इति बोधिभावना १२ ॥ १० ॥ भावना निर्ममत्वहेतुकामुपसंहरन् प्रकृते समत्वे योजयतिभावनाभिरविश्रांतमिति भावितमानसः । निर्ममः सर्वभावेषु समत्वमवलम्बते ॥ ११० ॥ । ____ स्पष्टः ।। ११० ॥ साम्यस्यैव फलमाहविषयेभ्यो विरक्तानां साम्यवासितचेतसाम्। उपशाम्येत् कषायाग्निर्बोधिदीपः समुन्मिषेत् १११ साम्यवासितचेतसां योगिनामत एव विषयेभ्यो विरक्तानामुपशाम्येत् कषायाग्निरित्यनर्थनिषेधः, बोधिदीपः । समुन्मिषेदित्यर्थप्राप्तिः ॥ १११ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy