SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat **<***@**•~~>*<-03-***@****OKK सोऽष्टाह्निकामहिमानं चक्रे स्वमहिमोचितम् ॥ २ ॥ दण्डरत्नं वज्रसारं सर्वशत्रुविनाशनम् । अथ सेनापतिर्वज्रं वज्रपाणिरिवाददे || ३ || पदानि कतिचित्सोऽपसृत्य वक्र इव ग्रहः । दण्डरलेन झटिति कपाटौ त्रिरताडयत् ||४|| पचाविवाद्रेर्वत्रेण दण्डरत्नेन ताडितौ । तडत्तडिति कुर्वाणौ विश्लिष्टौ तौ बभूवतुः ||५|| तद्गुहाद्वारवत्सद्यः सविकाशमुखो भृशम् । सुषेणो भरतायेदं गत्वा नत्वा व्यजिज्ञपत् ॥ ६ ॥ अद्या भूत्वत्प्रभावेण गुहाद्वारमपार्गलम् । यतेर्निःश्रेयसद्वारं तपसेवाविभूयसा ॥ ७ ॥ मघवैरावणमिवाधिरूढो गन्धवारणम् । तत्कालं भरताधीशो गुहाद्वामुपायौ ॥ ८ ॥ अन्धकारापहाराय मणिरत्नं न्यधान्नृपः । दक्षिणे कुम्भिनः कुम्भे पूर्वाद्राविव भास्करम् ॥६॥ ततोऽनुगचमूचक्रश्चक्रमार्गानुगो गुहाम् । प्रविवेश विशामीशो मेघमध्यमिवार्यमा ॥ १० ॥ गोमूत्रिकाक्रमेणानुयोजनान्तं तम । पार्श्वयोः काकिणीरत्नेनालिखन्मण्डलानि सः ॥ ११ ॥ दीमैरेकोनपञ्चाशन्मण्डलैः काकिणीकृतैः । मार्त्तण्डमण्डलोद्योतैस्तद्वाहिन्यो ऽवहन्सुखम् ॥ १२ ॥ भूपोऽथापश्यदुन्मग्ननिमग्ने निम्नगे ययोः । एकत्रोन्मञ्जति ग्रावान्यस्यां मज्जत्यलाब्वपि ॥ १३ ॥ श्रतिदुस्तरताभाजोरपि सारणिलीलया । तयोर्न - द्योरनवद्यां पद्यां व्यधित वर्द्धकिः ॥ १४ ॥ पद्यया ते समुत्तीर्य तद्गुहा कुहरान्नृपः । निरगच्छन्महामेघमण्डलादिव भास्करः ।। १५ ।। भरतो भरतक्षेत्रोत्तरखण्डं प्रविष्टवान् । अयुध्यत ततो म्लेच्छैर्दानवैरिव वासवः ॥ १६ ॥ जिता राज्ञा महेशेन म्लेच्छाः प्रतिजयेच्छवः । उपासाञ्चक्रिरे मेघमुखान् स्वकुलदेवताः ।। १७ ।। मुसलाकारधाराभिरारादासारदारुणम् । ते प्रावर्त्तन्त संवर्त्त इव विष्वक् प्रवर्षितुम् ॥ १८ ॥ चर्मरत्नमधस्तेने राज्ञा द्वादशयोज - ( १ ) महेच्छेन । For Personal & Private Use Only: •-*--10+ 0.001.08-* www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy