SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ का योगशास्त्रम् ॥२३॥ गच्छन् ककुभोत्तरपूर्वया । भरतार्द्धद्वयाघाट वैताढ्याद्रिमवाप च ॥८६॥ नितम्बे दक्षिणे तस्य विन्य- प्रथमः स्तशिविरस्ततः । अधिवैताढयकुमारं नृपतिर्विदधेष्टमम् ॥८७॥ विज्ञायावधिना सोऽपि दिव्यस्तैस्तैरुपायनैः । प्रकाश उपतस्थे महीपालं सेवां च प्रत्यपद्यत ॥८॥ तं विसृज्य नृपश्चक्रेऽष्टमभक्तान्तपारणम् । अष्टाह्निकोत्सवं तस्य विदधे च यथाविधि ॥८६॥ गुहां तमिस्रामभितस्तमिस्रारिरिव त्विषा । जगाम तददूरे च स्कन्धावारं न्यधान्नृपः ॥ ३० ॥ कृतमालामरं तत्र स उद्दिश्याष्टमं व्यधात् । सोऽपि ज्ञात्वासनकम्पादान!पेत्य भूपतिम् ॥ ११॥ विसृज्य तमपि मापः कृत्वा चाष्टमपारणम् । विदधेऽष्टाह्निका तस्य महोत्सवपुरःसरम् ॥ १२ ॥ सुपेणो भरतादेशात्सिन्धुमुत्तीर्य चर्मणा । तरसा साधयामास दक्षिणं सिन्धुनिष्कुटम् ॥ १३ ॥ करं ततस्त्यम्लेच्छानामादाय स्वेच्छयाथ सः । उत्तीर्य चर्मणा सिन्धुमाययौ भरतेश्वरम् ॥ १४ ॥ वैताढथे तमिस्री वज्रकपाटपिहितां गुहाम् । उद्घाटयितुमादिक्षत् सुपेणमृषभात्मजः ॥६५॥ सुषेणोऽपि प्रभोराज्ञां शेषावन्मूनि धारयन् । प्रदेशेऽगात्तमिमाया गुहाया अदवीयसि ।। ६६ ॥ तदधिष्ठातृदेवं च कृतमालमनुस्मरन् । तस्थौ पौषधशालायामष्टमेन विशुद्भधीः ॥ १७॥ स्नात्वा चाष्टमभक्तान्ते बाह्याभ्यन्तरशौचभृत् । पर्यधाच्छुचिवस्त्राणि विविधाभरणानि च ॥९८॥ होमकुण्डोपमे धूपदहने ज्वलदग्निके। धूपमुष्टीः क्षिपन् स्वार्थसाधनीराहुतीरिव ॥ ६६ ॥ ततः स्थानादसौ तस्या गुहाया द्वारमभ्यगात् । कोशद्वारं तदायुक्त इवोद्घाटयितुं त्वरी ॥ ३०० ।। दृष्टमात्रं तत्कपाटयुगलं प्रणनाम च । नेतारमिव तदन्तःप्रवेशः स्यात्कुतोऽन्यथा ॥ १॥ गुहाद्वारे ततोऽष्टाष्टमङ्गलालेखपूर्वकम् । [1] (१) ततस्तमृषभात्मजः । ॥२३॥ Education internacional For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy