SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः योग- दपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुताः तोषम्, निन्दिताश्च द्वेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलम् , शास्त्रम्ला निन्दकश्च निन्दाफलमामोत्येव यथा चिन्तामणिमन्त्राधाराधकः, यदवोचाम वीतरागस्तवे अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ॥१॥ १२२७॥ इत्युक्तमेव । अथ यदि न प्रसीदन्ति, तत्किं प्रसीदन्त्विति वृथा प्रलापेन ? । नैवम् । भक्त्यतिशयत एवम भिधानेऽपि न दोषः । यदाह-क्षीणकेशा एते न हि प्रसीदन्ति, न तत्स्तवोऽपि वृथा, तत्स्तवभावविशुद्धेः, प्र। योजनं कर्मविगम इति ॥ ५ ॥ तथा कित्ति वंदिअ महिआ जे ए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलामं समाहिवरमुत्तमं दिंतु ॥६॥ कीर्तिताः स्वनामभिः प्रोक्ताः वन्दितास्त्रिविधयोगेन सम्यक स्तुतार, महिताः पुष्पादिभिः पूजिताः। मइया इति पाठान्तरम्, तत्र मयका मया । के एते ?, इत्याह-ये एते लोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः, प्रकृष्टाः, सिद्ध्यन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थम् , बोधिलामः अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम् , तदर्थे च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव, अत आह-उत्तमं सर्वोत्कृष्टं ददतु प्रयच्छन्तु, एतच्च भक्त्योच्यते । यत उक्तम् भासा असच्चमोसा नवरं भत्तीइ मासिा एसा । न हु खीणपिज्जदोसा दिति समाहिं च बोहिं च ॥१॥ इति (१) भाषा असत्यमृषा नवरं भक्त्या भाषितेषा । न खलु क्षीणप्रेमदोषा ददति समाधि च बोधिं च ॥ १॥ ॥२२७॥ Jain Education internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy