SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ॥ ३८॥ ततः पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु ॥ ३९ ॥ जगाद नारदोऽप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रेह गौणी गुरुरचीकथत ॥४०॥ गुरुर्द्धर्मोपदेष्टैव श्रुति मात्मिकैव च । द्वयमप्यन्यथाकुर्वन्मित्र मा पापमर्जय ॥४१॥ साक्षेपं पर्वतोऽजल्पदजान्मेषान गुरुर्जगौ । गुरूपदेशशब्दार्थोलङ्घनाद्धर्ममर्जसि ॥ ४२ ॥ मिथ्याभिमानवाचो हि न स्युदण्डभयान्नृणाम् । स्वपक्षस्थापने तेन जिहाच्छेदः | पणोऽस्तु नः ॥४३॥ प्रमाणमुभयोरत्र सहाध्यायी वसुनृपः । नारदः प्रतिपेदे तन्न क्षोभः सत्यभाषिणाम् ॥४४॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यौपं भवत्पितुः ॥ ४५ ॥ जिहाच्छेदं पणेऽकार्यद्दत्तिदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदा पदम् ॥ ४६ ।। अवदत्पर्वतोऽप्येवं कृतं तावदिदं मया । यथातथाकृतस्याम्ब करणं न हि विद्यते ॥ ४७॥ साऽथ पर्वतकापायपीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ॥ ४८ ॥ दृष्टः क्षीरकदम्बोऽध यदम्ब त्वमसीक्षिता । किं करोमि प्रयच्छामि किं चेत्यभिदधे वसुः॥४६ । साऽवादीद्दीयतां पुत्रभिक्षा मह्यं महीपते । धनधान्यैः किमन्यैर्मे विना पुत्रेण पुत्रक ॥ ५० ॥ वसुरूचे मम मातः पान्यः पूज्यश्च पर्वतः। गुरुवद्गुरुपुत्रेऽपि वर्जितव्यमिति श्रुतिः ॥५१॥ कस्याद्य पत्रमुत्तिप्तं कालेनाकालरोषिणा । को जिघांसुभ्रातरं मे बेहि मातः किमातुरा ॥५२॥ अजव्याख्यानवृत्तान्तं १ कोषेषु. Jain Education internapr For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy