SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ७४ ॥ Jain Education Interna द्विपः ॥ ६० ॥ तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरीव न्यवर्त्तत ॥ ६१ ॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत्साचादिवान्तकः ॥ ६२ ॥ सुभटग्रामसंग्रामकौतुकी जमदग्निजः । पर्शुना खण्डशचक्रे दारुवद्दारुणेन तम् ॥ ६३ ॥ राज्ये निवेशयाश्चक्रे तस्य प्रकृतिपूरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः || ६४ ॥ स तु मातृमुखाच्छ्रुत्वा मृत्युव्यतिकरं पितुः । आदिष्टाहिरिवागत्य जमदग्निममारयत् ॥ ६५ ॥ रामः पित्वधक्रुद्धो द्राग्गत्वा हस्तिनापुरे | अमारयत्कृतवीर्यं किं यमस्य दवयसि ॥ ६६ ॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥ ६७ ॥ रामाक्रान्तपुराद्राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् ॥ ६८ ॥ कृपाधनैर्भूगृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात्परशुरामतः ॥ ६६ ॥ चतुर्दशमहास्वमसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं सुखेनाभूत्सुभूमो नामतस्ततः ॥ ७० ॥ क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पर्शुः परशुरामस्य कोपानिरिव मूर्त्तिमान् ॥ ७१ ॥ रामोऽगादन्यदा तत्राश्रमे पर्शुश्च सोऽज्वलत् । चत्रं चासूचयद्भूम इव धूमध्वजं तदा ॥ ७२ ॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ॥ ७३ ॥ रामोऽप्यमर्षान्निः चत्रां सप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ॥ ७४ ॥ मक्षत्रियदंष्ट्रा भी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ।। ७५ ।। रामः पप्रच्छ नैमित्तानन्येद्युर्मे कुतो वधः । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥ ७६ ॥ यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोच्यतेऽमुस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥ ७७ ॥ रामोऽथ For Personal & Private Use Only 40X0208-11 द्वितीयः प्रकाशः । ॥ ७४ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy