SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥ ४३ ॥ ऋतुकाले स ऊचे तां चलं ते साधयाम्यहम् । यथा ब्राह्मणमूर्धन्यो धन्य उत्पद्यते सुतः॥४४॥ सोवाच हस्तिनपुरेऽनन्तवीर्यस्य भूपतेः। पल्ल्यस्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ॥ ४५ ॥ ब्रामं सधर्मचारिण्यै क्षात्रं तजामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ॥ ४६ ॥ साचिन्तयदहं तावदभूवमटवीमृगी । मा भून्मादृक् सुतोऽपीति क्षात्रं चस्मभक्षयत् ॥४७॥ सादाबा चरुं स्वस्र जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः॥४८॥ क्रमेण ववृधे राम ऋषित्वे पैतृकेऽपि सः। क्षात्रं प्रदर्शयंस्तेजो हुताशनमिवाम्भसि ।। ४६ ॥ विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारकी । विद्या तस्यातिसाराा विस्मृताकाशगामिनी ॥५०॥ रामेण प्रतिचरितो भेषजायैः स बन्धुवत् । रामाय सेवमानाय विद्या पारशवीं ददौ ॥५१॥ मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत्ततः प्रभृति विश्रुतः ॥५२॥ अन्येयुः पतिमापृच्छ्य रेणुकोत्कण्ठिता स्वसुः । जगाम हस्तिनपुरे प्रेम्णो दूरे न किश्चन ॥५३॥ श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्योऽरमयत्कामः कामं निरङ्कुश: T॥ ५४॥ ऋषिपल्ल्या तया राजाहल्ययेव पुरन्दरः । अन्वभूच्च यथाकामं सम्भोगसुखसम्पदम् ॥५॥ अनन्तवी त्तिनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः॥५६ ॥ तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोष न खलु वीक्षते ॥ ५७ ॥ तां पुत्रसहितां वल्लीमकालफलितामिव । सञ्जातकोपः परशुरामः परशुनाच्छिनत् ॥ ५८॥ तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः। कोपमुद्दीपयामास कृशानुमिव मारुतः ॥५६॥ ततश्चावार्यदोर्योऽनन्तवीर्थो महीपतिः । जमदग्न्याश्रमं गत्वाभाजीन्मत्त इव www.jainelibrary.org For Personal & Private Use Only Lain Education intern
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy