SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ******14:K ***--- Jain Education International मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ।। ६ ।। श्राम गोरससंपृक्तं द्विदलं पुष्पितौदनम् । दध्यहर्द्वितयातीतं कुथितान्नं च वर्जयेत् ॥ ७ ॥ तत्र मद्यं द्विधा - काष्ठनिष्पन्नं, पिष्टनिष्पन्नं च मांसं त्रिधा - जलस्थलखचरमांसभेदेन । मांसग्रहणेन चर्मरुधिरमेदोमजानः परिगृह्यन्ते । नवनीतं गोमहिष्यजाऽविसम्बन्धेन चतुर्द्धा । मधु त्रेधा - माचिकं भ्रामरं, कौत्तिकं च । उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥ ६ ॥ ७ ॥ तत्र मद्यस्य वर्जनीयत्वहेतून दोपान् श्लोकदशकेनाह- मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥ ८ ॥ वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो, मदिरापानमात्रेण बुद्धिर्नश्यति चयं याति दूरतो दूरं यावत् सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दूरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि दौर्भाग्यदोषेण कामिनी नश्यति पलायते, दूरतो दूरादपि ॥ ८ ॥ तथा पापा: कादम्बरीपानविवशीकृतचेतसः । जननीं हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥९॥ कादम्बरी मदिरा, जननीं मातरं, हा इति खेदे, प्रियीयन्ति प्रियामिव जायामिवाचरन्ति, प्रियां च जननी - यन्ति जननीमिवाचरन्ति । मदिरामदविह्वलत्वाज्जननीजाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥६॥ तथान जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति वराकः स्वं स्वामिनं किङ्करीयति ॥ १०॥ For Personal & Private Use Only 11K0/ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy