SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१५७॥ तदेतद्यावञ्जीव वा सद्बत गृहमधिनाम् । चतुर्मासादिनियमादथवा स्वल्पकालिकम् ।। १॥ सदा सामायिक- तृतीयः * स्थानां यतीनां तु जितात्मनाम् । न दिशि वचन स्यातां विरत्यविरती इमे ।। २॥ चारणानां हि गमनं यदुर्द्ध में प्रकाश:1 मेरुमूर्द्धनि । तियगुरुचकशैले च नैषां दिग्विरतिस्ततः ॥ ३॥ गन्तुं सर्वासु यो दिशु विदध्यादवधिं सुधीः । स्वगादी निरवधयो जायन्ते तस्य सम्पद: ।। ४ ।। ३ ।। द्वितीयं गुणवतमाहभोगोपभोगयोः संख्या शक्त्या यत्र विधीयते। भोगोपभोगमानं तद द्वैतीयीकं गुणवतम् ॥ भोगोपभोगयोर्वक्ष्यमाणलक्षणयो संख्या परिमाणं यत्र व्रते विधीयते, कया ? शक्या शरीरमनसोरनाबाधया, तद्भोगोपभोगमानं नाम गुणवतं, द्वितीयमेव द्वैतीयीकम् ; स्वार्थे टीकण् ।। ४ ।। भोगोपभोगयोर्लक्षणमाहसकृदेव भुज्यते यः स भोगोऽन्नस्रगादिकः । पुनःपुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥५॥ सकृदेव एकवारमेव, भुज्यते सेव्यते इति भोगः, अनमोदनादि, सग्माम्यं, आदिशब्दात्ताम्बूलविलेपनोद्वर्त्तनधूपनस्मानपानादिपरिग्रहः । पुनःपुनरनेकवारं, भोग्यः सेव्यः, अङ्गना वनिता, भादिशब्दाद्वस्त्रालङ्कारगृहशयनासनवाहनादिपरिग्रहः॥ ५॥ इदं च भोगोपभोगव्रतं भोक्तं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकद्वयेन तद्वर्जनीयानाह ॥१५७॥ www.jainelibrary.org in Education international For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy