SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ O योगशास्त्रम् प्रथम: ॥४१॥ |च गप्तिसमितीनां महाव्रतभावनात्वेन गताथानामपि अथवा पश्चसमितीत्यादिग्रन्थन पुनरुत्कीरीनं गुप्तिसमितीनामुत्तरगुणत्वज्ञापनार्थम् । यदाह प्रकाशः। पिण्डस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहो चिय उत्तरगणमोविहाणाहिं ॥१॥ इह च मनोगप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात् । श्रूयते हि प्रसन्नचन्द्रराजर्षिर्मनोगत्याऽभाविताहिंसावतो हिंसामकुर्वनपि सप्तमनरकपृथ्वीयोग्यं कर्म निर्ममे । एषणादानेर्यासमितयस्तु अहिंसायां नितरामपकारिण्य इति युक्तं भावनात्वम् । दृष्टान्नपानग्रहणं च संसक्तानपानपरिहारेणाहिंसाव्रतोपकारायेति पञ्चमी भावना ॥ २६ ॥ द्वितीयव्रतस्य भावना आहहास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि भावयेत्सूनृतव्रतम् ॥२७॥ ___ हसन् हि मिथ्या ब्रूयात् , लोभपरवशश्वार्थाकाझ्या, भयाः प्राणादिरक्षणच्छया, क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः । आलोच्य भाषणं सम्यगज्ञानपूर्वकं पालोच्य मृपा मा भूदिति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना । मोहस्य च मृषावादहेतुत्वं प्रतीतमेव । यदाह-" रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतमिति" ॥ २७ ॥ तृतीयव्रतस्य भावना आह१ पिण्डस्य या विशोधिः समितयो भावनास्तपो द्विविधम् । प्रतिमा अभिग्रहश्चैव उत्तरगुणविधानानि (प्रकाराः) ॥१॥ |Tinyam Jain Education internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy